पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ३]
११९
मन्वर्थमुक्तावलीसंवलिता।

पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः ।
तेनैव विप्रानासीनान्विधिवत्पूर्वमाशयेत् ॥ २१९ ॥

 पिण्डेभ्य इति ॥अल्पिकेत्यन्नाल्पमात्रा अवयवभागाः पिण्डे पूत्पन्नानल्पभागान्पिण्डक्रमेणैव गृहीत्वा तेनैव पित्रादिब्राह्मणान्भोजनकाले भोजनात्पूर्वं भोजयेत् । विधिवत्पिण्डानुष्टानवत्पितरमुद्दिश्य यः पिण्डो दत्तस्तदवयवं पितृब्राह्मणं भोजयेत् । एवं पितामहप्रपितामहपिण्डयोरपि ॥ २१९ ॥

ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
विप्रवद्वापि तं श्राद्धे स्वकं पितरमाशयेत् ॥ २२० ॥

 ध्रियमाणे त्विति ॥ ध्रियमाणे जीवति पितरि मृतानां पितामहादित्रयाणां श्राद्धं कर्तव्यम् । अथवा पितृविप्रस्थाने तमेव स्वपितरं भोजयेत् । पितामहप्रपितामहयोश्च ब्राह्मणौ भोजयेत्पिण्डद्वयं च दद्यात् ॥ २२० ॥

पिता यस्य निवृत्तः स्याजीवेच्चापि पितामहः ।
पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥ २२१ ॥

 पितेति ॥ नामकीर्तनमत्र श्राद्धोपलक्षणार्थम् । पितृजीवनापेक्षोऽयं वाशब्दः। यस्य पुनः पिता मृतः स्यात्पितामहे जीवति स पितृप्रपितामहयोः श्राद्धं कुर्यात् । गोविन्दराजस्तु 'यस्य पितृप्रपितामही प्रेतौ स्यातां स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यादिति विष्णुवचनात्प्रपितामहतत्पितृभ्यां दद्यात्' इति व्याख्यातवान् ॥ २२१ ॥

पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः ।
कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥ २२२ ॥

  पितामह इति ॥ यथा जीवत्पिता भोज्यस्तथा पितामहोऽपि पितामहब्राह्मणस्थाने भोज्यः । पितृप्रपितामहयोश्च ब्राह्मणभोजनं पिण्डदानं च कुर्यात् । यथावा जीवता पितामहेन त्वमेव यथारुचि कुर्विति दत्तानुज्ञः स्वरुच्या पितामहं वा भोजयेत् । पितृप्रपितामहयोर्वा श्राद्धद्वयं कुर्यादिति विष्णुवचनात्पितृप्रपितामहद्वप्रपितामहानां श्राद्धत्रयं कुर्यात् ॥ २२२ ॥

तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ।
तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ॥ २२३ ॥

 तेषामिति ॥ 'पिण्डेभ्यस्त्वल्पिकां मात्राम्'इति यदुक्तं तस्यायं कालविधिः प्रदेयविधिश्च तेषां ब्राह्मणानां हस्तेषु सदर्भतिलोदकं दत्त्वा तदिति पूर्वनिर्दिष्टं पिण्डाग्रं पित्रे स्वधास्त्वित्येवमादि ब्रुवन्पित्रादिब्राह्मणेभ्यस्त्रिभ्यः क्रमेण दद्यात् ॥ २२३ ॥

पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम् ।
विप्रान्तिके पितॄन्ध्यायञ्शनकैरुपनिक्षिपेत् ॥ २२४ ॥