पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ३]
११५
मन्वर्थमुक्तावलीसंवलिता।

 मनोरिति ॥ हिरण्यगर्भापत्यस्य मनोर्ये मरीच्यादयः पुत्राः पूर्वमुक्ताः ‘मरीचिरभ्यङ्गिरसौ' इत्यादिना तेषामृषीणां सर्वेषां सोमपादयः पितृगणाः पुत्रा मन्वादिभिः स्मृताः ॥ १९४ ॥

विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।
अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥ १९५ ॥

 विराडिति ॥ विराट्सुताः सोमसदो नाम साध्यानां पितरः । अग्निष्वात्ता मरीचेः पुत्रा लोकविख्याता देवानां पितरः ॥ १९५ ॥

दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
सुपर्णकिन्नराणां च स्मृता वर्हिपदोऽत्रिजाः ॥ १९६ ॥

 दैत्येति ॥ दैत्यादीनां प्रथमाध्यायोदितभेदानामत्रिपुत्रा बर्हिपदो नाम पितरः स्मृताः ॥ १९६ ॥

सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।
वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥ १९७ ॥

 सोमपा इति ॥ ब्राह्मणप्रभृतीनां चतुर्णां वर्णानां सोमपाप्रभृतयश्चत्वारः पितरः स्मृताः ॥ १९७ ॥

सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः ।
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ १९८ ॥

 सोमपा इति ॥ कवेर्भृगोः सोमपाः पुत्राः । हविर्भुज एव हविष्मन्तोऽङ्गिरसः पुत्राः । आज्यपाः पुलस्त्यसुताः । सुकालिनो वसिष्ठसुताः ॥ १९८ ॥

अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा ।
अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥ १९९ ॥

 अग्नीति ॥ अग्निदग्धानग्निदग्धकाव्यबर्हिषदग्निष्वात्तसौम्याख्यान्परान्पितॄन्विप्राणामेव जानीयात् ॥ १९९ ॥

य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।
तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥ २०० ॥

 य इति ॥ य एते प्रधानभूताः पितृगणा उक्तास्तेषामपीह जगति पितर एव पुत्रपौत्रा अनन्ता विज्ञेयाः । पुत्रपौत्रमिति 'गवाश्वप्रभृतीनि च' इत्येकवद्भावः । एतच्छ्लोकसूचिता एव 'वरो वरेण्यः' इत्यादयोऽन्येऽपि पितृगणा मार्कण्डेयादिपुराणादिषु श्रूयन्ते ॥ २० ॥

ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ।
देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः ॥ २०१॥