पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ३]
११३
मन्वर्थमुक्तावलीसंवलिता।

ङ्क्तिपावनाः । अतएव यमः पङ्क्तिपावनगणनायां 'चतुर्वेदविदे चैव' इति पठितवान् । तथा प्रकर्षेणैवोच्यते वेदार्थ एभिरिति प्रवचनान्यङ्गानि तेष्वप्यग्न्याः षडङ्गवेदस्ते च चतुर्वेदिनोऽपि पङ्क्तिपावनाः । न्यायविच्च षडङ्गविदिति पङ्क्तिपावनमध्ये मेन पृथक्पठितत्वात् । तथा छन्दसां शुद्धदशपुरुष इत्युशनोवचनाद्दशपुरुषपर्यतमविच्छिन्नवेदसंप्रदायवंशजाः पङ्क्तिपावनाः ॥ १८४ ॥

त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयात्मसंतानो ज्येष्ठसामग एव च ॥ १८५॥

 त्रिणाचिकेत इति ॥ त्रिणाचिकेतोऽध्वर्युवेदभागस्तद्ब्रूतं च, तद्योगात्पुरुषोऽपि त्रिणाचिकेतः । पञ्चाग्निरग्निहोत्री। तथाच हारीतः- पवनः पावनस्त्रेता यस्य पञ्चाग्नयो गृहे । सायंग्रातः प्रदीप्यन्ते स विप्रः पङ्क्तिपावनः ॥' पवन आवसयाग्निः पावनः सभ्योऽग्निः शीतापनोदाद्यर्थं बहुषु देशेष्वपि विधीयते । त्रिसुपर्णो बह्वृचां वेदभागस्तद्गतं च, तद्योगात्पुरुषोऽपि त्रिसुपर्णः । षडङ्गानि शिक्षादीनि यो याचष्टे स षडङ्गवित् सर्वप्रवचनेन षडङ्गाध्येतोक्तः । ब्रह्मदेया ब्राह्मविवाहोढा तस्या आत्मसंतानः पुत्रः । ज्येष्ठसामान्यारण्यके गीयन्ते तेषां गाता । एते षट् विज्ञेयाः पङ्क्तिपावना इत्युत्तरश्लोकेन संबन्धः ॥ १८५ ॥

वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः।
शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ १८६ ॥

 वेदेति ॥ अनधीत्यापि वेदाङ्गानि गुरूपदेशाधिगतवेदार्थः, प्रवक्ता वेदार्थस्यैव, ब्रह्मचारी प्रथमाश्रमी, सहस्रद इति देयविशेषानुपादानेऽपि 'गावो वै यज्ञस्य पातरः' इत्यादिविशेषप्रवृत्तश्रुतिदर्शनाद्गोसहस्रदाता बहुप्रदो वा । शतायुः शतवर्षवयाः। श्रोत्रियायैव देयानीति नियमात्सति श्रोत्रियत्वे उक्तगुणयोगात्पङ्क्तिपावनत्वम् ॥ १८६ ॥

पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयेत त्र्यवरान्सम्यग्विप्रान्यथोदितान् ॥ १८७॥

 पूर्वद्युरिति ॥ श्राद्धकर्मणि प्राप्ते श्राद्धाहात्पूर्वदिने तदसंभवे श्राद्धदिन एवोक्तलक्षणान्ब्राह्मणान्सम्यगतिसत्कृत्य निमन्त्रयेत् । त्रयोऽवरा न्यूना येषां ते त्र्यवराः नतु तावत एव । एकैकभोजनस्याप्युक्तत्वात् ॥ १८७ ॥

निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ।
न च छन्दांस्यधीयित यस्य श्राद्धं च तद्भवेत् ॥ १८८ ॥

 निमन्त्रित इति ॥ श्राद्धे निमन्त्रितो ब्राह्मणो निमन्त्रणादारभ्य श्राद्धाहोरात्रं यावन्मैथुननिवृत्तिसंयमनियमवान्स्यात् । अवश्यकर्तव्यजपादिवर्जं वेदाध्ययनं च न कुर्यात् । श्राद्धकर्तापि तथैव स्यात् ॥ १८८ ॥