दुश्चर्मा वेत्यर्थत्रयमुक्तवान् । कितवो छूतकृत् । पूगयाजका बहुयाजकाः । 'पूगः ऋमुकवृन्दयोः' इत्याभिधानिकाः । अतएव वसिष्ठः-'यश्चापि बहुयाज्यः स्याद्यश्चोपनयते बहून्' इति । तान्श्राद्धे न भोजयेदिति न दैवे निषेधः । यत्रोभयत्र निषेधो मनोरभिमतस्तत्र हव्यकव्यग्रहणमुभयत्रेति वा करोति ॥ १५ ॥
चिकित्सकान्देवलकान्मांसविक्रयिणस्तथा । |
चिकित्सेति ॥ चिकित्सको भिषक्, देवलः प्रतिमापरिचारकः, वर्तनार्थत्वेनैतत्कर्म कुर्वतोऽयं निषेधो नतु धर्मार्थम् । 'देवकोशोपभोजी च नाम्ना देवलको भवेत्' इति देवलवचनात् । मांसविक्रयिणः सकृदपि। 'सद्यः पतति मांसेन' इति लिङ्गात् । विपणेनेति । विपणो वणिज्या तया जीवन्तः। हव्यकव्ययोरित्यभिधानाद्देवे पित्र्ये चैते त्याज्याः ॥ १५२ ॥
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः। |
प्रेष्य इति ॥ भृतिग्रहणपूर्वक ग्रामाणां राज्ञश्चाज्ञाकारी कुत्सितनखकृष्णदन्तः गुरुप्रतिकूलाचरणशीलत्यक्तश्रौतस्मार्ताग्निकलोपजीवनश्च हव्यकव्ययोर्वर्ज्या इति पूर्वस्यैवात्रानुषङ्ग उत्तर एव च ॥ १५३ ॥
यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः। |
यक्ष्मीति ॥ यक्ष्मी क्षयरोगी, पशुपालो वृत्त्यर्थतया छागमेपादिपोषकः, परिवेत्तृपरिवित्ती वक्ष्यमाणलक्षणो, निराकृतिः पञ्चमहायज्ञानुष्ठानरहितः । तथाच छन्दोगपरिशिष्टम्-'निराकर्तामरादीनां स विज्ञेयो निराकृतिः', ब्रह्मद्विट् ब्राह्मणादीनां द्वेष्टा, गणाभ्यन्तरो गणार्थोपसृष्टसंबन्धिधनाघुपजीवी ॥ १५४ ॥
कुशीलवोऽवकीर्णी च वृषलीपतिरेव च । |
कुशीलव इति ॥ कुशीलवो नर्तनवृत्तिः, अवकीर्णी स्त्रीसंपर्काद्विप्लुतब्रह्मचर्यः प्रथमाश्रमी यतिश्च, वृषलीपतिः सवर्णामपरिणीय कृतशूद्राविवाहः, पौनर्भवः पुनर्भूपुत्रो वक्ष्यमाणः, उपपतिर्यस्य जायाजारो गृहेऽस्ति ॥ १५५ ॥
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा । |
भृतकेति ॥ भृतिर्वेतनं तद्ग्राही भृतकः सन् योऽध्यापकः स तथा, एवं भृतकाध्यापितः, शूद्रशिप्यो व्याकरणादौ गुरुश्च तस्यैव, वाग्दुष्टः परुषभाषी । अभिशस्त इत्यन्ये । कुण्डगोलकौ वक्ष्यमाणौ ॥ १५६ ॥