पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता । ९७

अप्रसिद्धत्वादतिथिलक्षणमाह-

एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ १०२ ॥

एकेति ॥ एकरानमेव परगृहे निवसन्ब्राह्मणोऽतिथिर्भवति । अनित्यावस्थानान्न विद्यते द्वितीया तिथिरस्येत्यतिथिरुच्यते ॥ १०२ ॥

नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा ।
उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा ॥ १०३ ॥

नैकेति ॥ एकग्रामनिवासिनं लोकेषु विचित्रपरिहासकथादिभिः संगत्या वृत्त्य- थिनं भार्याग्नियुक्तो गृहे वैश्वदेवकालोपस्थितमपि नातिथि विद्यात् । एतेन भार्याग्निरहितस्य प्रवासिनो नातिथित्वमिति बोधितम् ॥ १०३ ॥

उपासते ये गृहस्थाः परपाकमबुद्धयः ।
तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनाम् ॥ १०४ ॥

उपासत इति ॥ अतिथिप्रकरणादातिथ्यलोभेन ये गृहस्थाः नामान्तराणि गत्वा परान्नं सेवन्ते ते निषिद्धपरान्नदोषानभिज्ञाः तेन परान्नभोजनेन जन्मान्तरे अन्नादिदायिनां पशुतां ब्रजन्ति । तस्मादिदं न कुर्यादिति निषेधः कल्प्यते ॥ १०४ ॥

अग्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तास्त्वकाले वा नास्यानश्नन्गृहे वसेत् ॥ १०५ ॥

अप्रणोद्य इति ॥ सूर्येऽस्तमिते गृहस्थेनातिथिर्न प्रत्याख्येयः । सूर्येणोढः प्रापेतो रात्रौ स्वगृहगमनाशक्तेः। द्वितीयवैश्वदेवकाले प्राप्तः। अकाले वा सायंभोजने नेवृत्तेऽपि नास्य गृहेऽतिथिरनश्नन्वसेदवश्यमस्मै भोजनं देयम् । प्रत्याख्याने पायश्चित्तगौरवार्थोऽयमारम्भः । अतएव विष्णुपुराणे 'दिवाऽतिथौ तु विमुखे गते त्पातकं नृप । तदेवाष्टगुणं प्रोक्तं सूर्योढे विमुखे गते ॥' गोविन्दराजस्तु प्रतिपेद्धातिथिप्रतिप्रसवार्थत्वमस्याह ॥ १०५ ॥

न वै स्वयं तदनीयादतिथिं यन्न भोजयेत् ।
धन्यं यशस्यमायुष्यं स्वयं वातिथिपूजनम् ॥ १०६ ॥

न वै इति ॥ यद्धृतदध्याद्युत्कृष्टमतिथिर्न प्रत्याचष्टे तत्तस्मै अदत्त्वा न स्वयं गोक्तव्यम्। धनाय हितं धनस्य निमित्तं वा धन्यम् । एवं यशस्यादयोऽपि शब्दाः। तिथिभोजनफलकथनमिदम् । न चानावश्यकतापत्तिः । 'सर्वं सुकृतमादत्ते' त्यादिदोषश्रवणात् ॥ १०६ ॥

आसनावसथौ शय्यामनुव्रज्यामुपासनाम् ।
उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम् ॥ १०७ ॥

आसनेति ॥ आसनं पीठं चर्म वा, आवसथो विश्रामस्थानम्, शय्या खट्वादि

•मनु० ९