पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3 मनुस्मृतिः । [अध्यायः ३

जयोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।
ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ ७४ ॥

जप इति ॥ अहुतशब्देन ब्रह्मयज्ञाख्यो जप उच्यते । हुतशब्देन देवयज्ञाख्यो होमः । प्रहुतशब्देन भूतयज्ञाख्यो भूतबलिः । ब्राह्म्यहुतशब्देन मनुष्ययज्ञाल्यो ब्राह्मणश्रेष्ठस्यार्चा । प्राशितशब्देन पितृयज्ञाख्यं नित्यश्राद्धम् ॥ ७४ ।।

स्वाध्याये नित्ययुक्तः स्यादैवे चैवह कर्मणि ।
दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ ७५ ॥

स्वाध्याय इति ॥ यदि दारियादिदोषेणातिथिभोजनादिक कर्तुं न क्षमते तदा ब्रह्मयज्ञे नित्ययुक्तो भवेत् । दैवे कर्मण्यग्नौ होमे च । होमस्य स्तुतिमाह। यतो देवकर्मपर इदं स्थावरजङ्गमं धारयति ॥ ७५ ॥ कुत एतदित्याह-

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥ ७६ ॥

अन्नाविति ॥ यजमानेनानावाहुतिः सम्यक् क्षिप्ता रसाहरणकारित्वादादित्यस्यादित्यं प्रामोति । स चाहुतिरस आदित्याद्वृष्टिरूपेण जायते । ततोऽन्नं । तदुपभोगेन जायन्ते प्रजाः ॥ ७६ ॥

यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ॥ ७७ ॥

यथेति ॥ यथा प्राणाख्यवावाश्रयेण सर्वप्राणिनो जीवन्ति तथा गृहस्थाश्रयेण सर्वाश्रमिणो निर्वहन्ति ॥ ७७ ॥ गृहस्थः प्राणतुल्यः सर्वाश्रमिणामित्युक्तं तदेवोपपादयति-

यस्मात्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते तस्माज्येष्ठाश्रमो गृही ॥ ७८ ॥

यस्मादिति ॥ यस्माद्गृहस्थव्यतिरिक्तास्त्रयोऽप्याश्रमिणो वेदार्थव्याख्यानान्नदा- नाभ्यां नित्यं गृहस्थैरेवोपक्रियन्ते तस्माज्येष्ठाश्रमो गृहस्थः । ज्येष्ट आश्रमो यस्य स तथेति बहुव्रीहिः ॥ ७८ ॥

स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता ।
सुखं चेहेच्छता नित्यं योऽधार्यो दुर्बलेन्द्रियैः ॥ ७९ ॥

स इति ॥ यत एवमतः स गृहस्थाश्रमः स्वर्गसुखमिच्छता अनन्तमिव चिरस्थायित्वात् । इह लोके च स्त्रीसंभोगस्वाद्वन्नादिभोजनसुखं संततमिच्छताप्रयत्नेनानुष्ठेयः । योऽसंयतेन्द्रियैर्धारयितुं न शक्यते ॥ ७९ ॥