पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता । ९१

पञ्चेति ॥ पशुवधस्थानं सूना । सूना इव सूना हिंसास्थानगुणयोगाचुल्लयादयः पञ्च गृहस्थस्य हिंसाबीजानि हिंसास्थानानि । चुल्ली उद्वाहनी, पेषणी दृषडुपलामिका, उपस्करो गृहोपकरणकुण्डसंमार्जन्यादिः, कण्डनी उलूखलसुसले, उदकुम्भो जलाधारकलशः । याः स्वकार्य योजयन्पापेन संवध्यते ॥ ६८ ॥

तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।
पञ्च क्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ ६९ ॥

तासामिति ॥ तासां चुल्लयादिस्थानानां यथाक्रम निष्कृत्यर्थमुत्पन्नपापनाशार्थं गृहस्थानां पञ्च महायज्ञाः प्रतिदिनं मन्वादिभिरनुष्टेयतया स्मृताः । एवंच निष्कृत्यर्थमित्यभिधानाद्धिंसास्थानत्वेन च कीर्तनात् 'सूनादोषैर्न लिप्यते' इति वक्ष्यमाणत्वात्पञ्चसूनानां पापहेतुकत्वं, पञ्चयज्ञानां च तत्पापनाशकत्वमवगम्यते। प्रत्यहमित्यभिधानात्प्रतिदिनं तत्पापक्षयस्यापेक्षितत्वात्संध्यावन्दनादिवन्नित्यत्वमपि न विरुध्यते ॥ ६९॥

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ ७० ॥

अध्यापनमिति ॥ अध्यापनशब्देनाध्ययनमपि गृह्यते । जपोऽहुतमिति वक्ष्यमाणवान् । अतोऽध्यापनमध्ययनं च ब्रह्मयज्ञः । 'अन्नाद्येनोदकेन वा' इति तर्पणं वक्ष्यति स पितृयज्ञः । अग्नौ होमो वक्ष्यमाणो देवयज्ञः । भूतबलिर्भूतयज्ञः । अतिथिपूजनं मनुष्ययज्ञः। अध्यापनादिषु यज्ञशब्दो महच्छन्दश्च स्तुत्यर्थ गौणः ७०

पञ्चैतान्यो महायज्ञान हापयति शक्तितः ।
स गृहेऽपि वसन्नित्यं मुनादोषैर्न लिप्यते ।। ७१ ॥

पञ्चेति ॥ शक्तित इत्येतद्विधानार्थोऽयमनुवादः । अनुकल्पेनापि यथासंभवमेते कर्तव्याः । हापयतीति प्रकृत्यर्थ एव छान्दसत्वापिणच् । जहातीत्यर्थः ॥ ७१ ॥

देवतातिथिभृत्यानां पितृणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्रसन्न स जीवति ॥ ७२ ॥

देवतेति ॥ देवताशब्देन भूतानामपि ग्रहणम् । तेषामपि बलिहरणे देवतारूपस्वात् । भृत्या वृद्धमातापित्रादयोऽवश्यं संवर्धनीयाः। 'सर्वत एवात्मानं गोपायेत्'इति श्रुत्या आत्मपोषणमप्यवश्यं कर्तव्यम् । देवतादीनां पञ्चानां योऽन्नं न ददाति स श्वसनपि जीवितकार्याकरणान्न जीवतीति निन्दयावश्यकर्तव्यता बोध्यते ॥७२॥

अहुतं च हुतं चैव तथा प्रहुतमेव च ।
ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान्प्रचक्षते ॥ ७३ ॥

अहुतं चेति ।। नामभेदेऽपि वाक्यभेद इति दर्शयितुं पञ्चमहायज्ञानां मुन्यन्तरकृतान्यहुतादीनि संज्ञान्तराण्यभिधेयानि तानि स्वयं व्याचष्टे ॥ ७३ ॥