पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ८९

शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ।
न शोचन्ति तु यत्रता वर्धते तद्धि सर्वदा ॥ ५७ ॥

शोचन्तीति ।। 'जामिः स्वसृकुलस्त्रियोः' इत्याभिधानिकाः । यसिन्कुले भगिनीगृहपतिसंवर्धनीयसन्निहितसपिण्डस्त्रियश्च पत्नीदुहितृनुपायाः परितापादिना दु:खिन्यो भवन्ति तत्कुलं शीघ्रं निर्धनीभवति देवराजादिना च पीड्यते । यत्रता न शोचन्ति तद्धनादिना नित्यं वृद्धिमेति । मेधातिथिगोविन्दराजी तु 'नवोढादुहितस्नुपाद्या जामयः' इत्याहतुः ॥ ५७ ॥

जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः॥५८॥

जामय इति ॥ यानि गेहानि भगिनीपत्नीदुहितृस्नुपाद्या अपूजिताः सत्योऽभिश- पन्नीदमनिष्टेमषामस्त्विति तान्यभिचारहतानि धनपश्वादिसहितानि नश्यन्ति ५८

तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः ।
भूतिकामैनरैर्नित्यं सत्कारेषत्सवेषु च ॥ ५९॥

यस्मादिति ॥ यस्मादेवं तस्मात्कारणादेता भूषणाच्छादनाशनैर्नित्यं सत्कारेषु कौमुद्यादिषु, उत्सवेधूपनयनादिषु समृद्धिकामैर्नृभिः सदा पूजनीयाः ॥ ५९॥

संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ६० ॥

संतुष्ट इति ॥ भार्यया भर्त्रा इति हेतौ तृतीया । यत्र कुले भार्यया भर्ता प्रीतो भवति स्यन्तराभिलाषादिकं न करोति, भार्या च स्वामिना प्रीता भवति तस्मिन्कुले चिरं श्रेयो भवति । कुलग्रहणान्न केवलं भार्यापती एव, पुत्रपौत्रादिसंततिः श्रेयोभागिनी भवति ॥ ६०॥

यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते ॥ ६१ ॥

यदीति ॥ दीप्यर्थोऽन्न रुचिः। यदि स्त्री वस्त्राभरणादिना शोभाजनकेन दीप्तिमती न स्यात्तदा स्वामिनं पुनर्न हर्षयेदेव । हिशब्दोऽवधारणे । अप्रहर्षात्पुनः स्वामिनः प्रजनं गर्भधारणं न संपद्यते ॥ ६१ ॥

स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलम् ।
तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ ६२॥

स्त्रियामिति ॥ स्त्रियां मण्डनादिना कान्तिमत्यां भर्तृस्नेहविषयतया परपुरुषसंप-