पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ८५

युक्ताः पुत्राः शिष्टप्रिया जायन्ते। प्रियार्थत्वाच्च संमतशब्दस्य 'क्तेन च पूजायाम्' इति न षष्टीसमासप्रतिषेधः । संबन्धसामान्यविषया पष्टीयं समस्यते ॥ ३९ ॥

रूपसत्वगुणोपेता धनवन्तो यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः॥४०॥

रूपेति ॥ रूपं मनोहराकृतिः, सत्त्वं द्वादशाध्याये वक्ष्यमाणं, गुणा दयादयः, तैर्युका धनिनः ख्यातिमन्तो यथेप्सितवस्त्रस्नग्गन्धलेपनादिभोगशालिनो धार्मिकाश्च पुत्रा जायन्त इति पूर्वमनुवर्तते । शतं च वर्षाणि जीवन्ति ॥ ४० ॥

इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विपः सुताः॥४१॥

इतरेष्विति ॥ ब्राह्मादिभ्यश्चतुभ्योऽन्येष्वासुरादिषु चतुर्षु विवाहेषु क्रूरकर्माणो मृषावादिनो वेदद्वेषिणो यागादिधर्मद्वेषिणः पुत्रा जायन्ते ॥ ४१ ॥ अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निन्दिता नॄणां तस्मानिन्द्यान्विवर्जयेत् ॥ ४२ ॥}}</poem>}} अनिन्दितैरिति ॥ संक्षेपेण विवाहानां फलकथनमिदम् । अगर्हितैरर्भार्याप्राप्तिहेतुभिर्विवाहैरगर्हिता मनुष्याणां संतनिर्भवति । गर्हितैस्तु गर्हिता । तस्माद्गहितविवाहान्न कुर्यात् ॥ ४२ ॥

पाणिग्रहणसंस्कारः सवर्णाम्पदिश्यते ।
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ॥ ४३ ॥

पाणीति ॥ समानजातीयासु गृह्यमाणासु हस्तग्रहणलक्षणः संस्कारो गृह्यादिशास्त्रेण विधीयते । विजातीयासु पुनरुह्यमानासु विवाहकर्मणि पाणिग्रहणस्थानेऽयमनन्तरश्लोके वक्ष्यमाणो विधि यः ॥ ४३ ॥

शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्स दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥४४॥

शर इति ॥ क्षत्रियया पाणिग्रहणस्थाने ब्राह्मणविवाहे ब्राह्मणहस्तपरिगृहीतका ण्डैकदेशो ग्राह्यः । वैश्यया ब्राह्मणक्षत्रियविवाहे ब्राह्मणक्षत्रियावश्तप्रतोदेकदेशो ग्राह्यः । शूद्रया पुनर्द्विजातित्रयविवाहे प्रावृतवसनदशा ग्राह्या ॥ ४४ ॥

ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा ।
पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥४५॥

ऋत्विति ॥ ऋतुर्नाम शोणितदर्शनोपलक्षितो गर्भधारणयोग्यः स्त्रीणामवस्थाविशेषः । तत्कालाभिगामी स्यादित्ययं नियमविधिः नतु परिसंख्या । स्वार्थहानि-

१ विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ॥ तत्र चान्यत्र वा प्राप्तौ परिसंख्या निगद्यते ॥. मनु०८