८४ मनुस्मृतिः। [ अध्यायः ३
यत्र विवाहे मैथुनधर्मेण प्रवर्तते स पापहेतुर्विवाहानां मध्येऽधमः पैशाचः ख्यातः ॥ ३४ ॥
अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते । |
अद्भिरिति ॥ उदकदानपूर्वकमेव ब्राह्मणानां कन्यादानं प्रशस्तम् । क्षत्रियादीनां पुनर्विनाप्युदकं परस्परेच्छया वाड्मात्रेणापि कन्यादानं भवति । उदकपूर्वकमपीत्यनियमः ॥३५॥
यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः । |
य इति ॥ यद्यपि 'गुणदोषौ च यस्य यौ' इति गुणाभिधानमपि प्रतिज्ञातमेव तथापि बहूनामर्थानां तत्र वक्तव्यतया प्रतिज्ञातत्वाद्विशेषज्ञापनार्थः पुनरुपन्यासः। एषां विवाहानामिति निर्धारणे षष्ठी । एषां मध्ये यस्य विवाहस्य यो गुणो मनुना कथितस्तत्सर्व हे विप्राः मम कथयतः शृणुत ॥ ३६॥
दश पूर्वान्परान्वंश्यानात्मानं चैकविंशकम् । |
दशेति ॥ दश पूर्वान्पित्रादीन्वंश्यान्, परान्पुत्रादीन्दश, आत्मानं चैकविंशकं ब्राह्मविवाहोढापुत्रो यदि सुकृतकृद्भवति तदा पापान्मोचयति पित्रादीन्नरकादुद्धरति, पुत्रादयश्च तस्य कुले निष्पापा जायन्त इति मोचनार्थः । तेषामनुत्पत्तेः पापध्वंसस्याशक्यत्वात् ॥ ३७ ॥
दैवोढाजः सुतश्चैव.सप्त सप्त परावरान् । |
दैवोढेति ॥ दैवविवाहोढायाः पुत्राः सप्तपरान्पित्रादीन्सप्तावरान्पुत्रादींश्च । आपविवाहोढायाः पुत्रस्त्रीन्पित्रादींस्त्रींश्च पुत्रादीन् । प्राजापत्यविवाहोढायाः पुत्रः पद पित्रादीन् षट् पुत्रादीन् आत्मानं चैनसो मोचयतीति पूर्वस्यैव सर्वत्रानुषङ्गः। कायोढज इति ‘ड्यापोः संज्ञाछन्दसोर्बहुलम्' इति इस्वत्वम् । ब्राह्माद्यष्टविवाहोदेशक्रमानुसारेण मन्दफलस्यार्षस्येह बहुफलप्राजापत्यात्पूर्वाभिधानम् । ब्राह्मादिविवाहोद्देशश्लोक एव कथमयं क्रम इति चेत् 'पञ्चानां तु त्रयो धाः' इत्यत्र प्राजापत्यग्रहणार्थम् । अन्यथा त्वार्षस्यैव ग्रहणं स्यात् ॥ ३८ ॥ प्रसवे च गुणागुणानिति यदुक्तं तदुच्यते-
ब्राह्मादिषु विवाहेषु चतुर्दैवानुपूर्वशः। |
ब्राह्मेति ॥ ब्राह्मादिषु चतुर्पु विवाहेषु क्रमावस्थितेषु श्रुताध्ययनसंपत्तिकतेजो-