पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः २

अभ्यङ्गमिति ॥ तैलादिना शिरःसहितदेहमर्दनलक्षणं, कजलादिभिश्च चक्षुपोरञ्जनं, पादुकायाश्छत्रस्य च धारणं, कामं मैथुनातिरिक्तविषयाभिलाषातिशयम् । मैथुनस्य स्त्रिय इत्यनेनैव निषिद्धत्वात् । क्रोधलोभनृत्यगीतवीणापणवादि वर्जयेत् ॥ १७८ ॥

द्यूतं च जनवादं च परिवादं तथानृतम् ।
स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥ १७९ ॥

द्यूतं चेति ॥ अक्षक्रीडां, जनैः सह निरर्थकवाक्कलह, परस्य दोषवादं, मृषाभिधानं, स्त्रीणां च मैथुनेच्छया सानुरागेण प्रेक्षणालिङ्गनं, परस्य चापकारं वर्जयेत् ॥१७९॥

एकः शयीत सर्वत्र न रेतः स्कन्दयेत्कचित् ।
कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमात्मनः॥१८०॥

एक इति ॥ सर्वत्र नीचशय्यादावेकाकी शयनं कुर्यात् । इच्छया न स्वशुक्र पातयेत् । यस्मादिच्छया स्वमेहनाच्छुकं पातयन्स्वकीयव्रतं नाशयति । व्रतलोपे चावकीर्णिप्रायश्चित्तं कुर्यात् ॥ १८० ॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।
स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ १८१ ॥

स्वप्न इति ॥ ब्रह्मचारी स्वप्नादावनिच्छया रेतः सिक्त्वा कृतस्नानश्चन्दनाद्यनुलेपनपुष्पधूपादिभिः सूर्यमभ्यर्च्य 'पुनर्मामैत्विन्द्रियम्' इत्येतामृचं वारत्रयं पठेत् । इदमत्र प्रायश्चित्तम् ॥ १८१ ॥

उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।
आहरेद्यावदानि भैक्षं चाहरहश्चरेत् ॥ १८२ ॥

उदकुम्भमिति ॥ जलकलशपुष्पगोमयमृत्तिकाकुशान्यावदानि यावद्भिः प्रयोजनानि आचार्यस्य तावन्त्याचार्यार्थमाहरेत् । अतएवोदकुम्भमित्यत्रैकत्वमप्यविवक्षितम् । प्रदर्शनं चैतत् । अन्यदप्याचार्योपयुक्तमुपाहरेद्भैक्षं च प्रत्यहमर्जयेत् ॥८२॥

वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ १८३ ॥

वेदयज्ञैरिति ॥ वेदयज्ञैश्चात्यक्तानां स्वकर्मसु दक्षाणां गृहेभ्यः प्रत्यहं ब्रह्मचारी सिद्धान्नभिक्षासमूहमाहरेत् ॥ १८३ ॥

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ १८४ ॥

गुरोः कुल इति ॥ आचार्यस्य सपिण्डेपु, बन्धुषु, मातुलादिषु च न भिक्षेत । तद्गृहव्यतिरिक्तभिक्षायोग्यगृहाभावे चोक्तेभ्यः पूर्वं पूर्वं वर्जयेत् । ततश्च प्रथमं बन्धून्भिक्षेत । तत्रालाभे ज्ञातीन् । तत्रालाभे गुरोरपि ज्ञातीन्भिक्षेत ॥ १८४ ॥