न्यासः । इज्यया ब्रह्मचर्यावस्थायां देवर्पिपितृतर्पणरूपया, गृहस्थावस्थायां पुत्रोत्पादनेन । महायज्ञैः पञ्चभिर्ब्रह्मयज्ञादिभिः । यज्ञैर्ज्योतिष्टोमादिभिः । ब्राह्मी ब्रह्मप्राप्तियोग्येयं तनुः तन्ववच्छिन्न आत्मा क्रियते । कर्मसहकृतब्रह्मज्ञानेन मोक्षावाप्तः ॥ २८ ॥
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते । |
प्रागिति ॥ नाभिच्छेदनात्प्राक् पुरुषस्य जातकर्माख्यः संस्कारः क्रियते । तदा चास्य स्वगृह्योक्तमन्त्रैः स्वर्णमधुघृतानां प्राशनम् ॥ २९ ॥
नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् । |
नामधेयमिति ॥ जातकर्मेति पूर्वश्लोके जन्मनः प्रस्तुतत्वाज्जन्मापेक्षयैव दशमे द्वादशे वाहनि अस्य शिशोर्नामधेयं स्वयमसंभवे कारयेत् । अथवा 'आशौचे व्यतिक्रान्ते नामकर्म विधीयते' इति शङ्खवचनाद्दशमेऽहन्यतीते एकादशाह इति व्याख्येयम् । तत्राप्यकरणे प्रशस्ते तिथौ प्रशस्त एव मुहूर्ते नक्षत्रे च गुणवत्येव ज्योतिषावगते कर्तव्यम् । वाशब्दोऽवधारणे ॥ ३० ॥
मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् । |
मङ्गल्यमिति ॥ ब्राह्मणादीनां यथाक्रमं मङ्गलबलधननिन्दावाचकानि शुभबलवसुदीनादीनि नामानि कर्तव्यानि ॥ ३१ ॥ इदानीमुपपदनियमार्थमाह-
शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । |
शर्मवद्राह्मणस्येति ॥ एषां यथाक्रमं शर्मरक्षापुष्टिप्रैष्यवाचकानि कर्तव्यानि, शर्मवर्मभूतिदासादीनि उपपदानि कार्याणि । उदाहरणानि तु शुभशर्मा, बलवर्मा, वसुभूतिः दीनदासः इति । तथाच यमः-'शर्म देवश्च विप्रस्य वर्म त्राता च भूभुजः। भूतिदत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत् ॥' विष्णुपुराणेऽप्युक्तम्-'शर्मवद्राह्मणस्योक्तं वर्मेति क्षत्रसंयुतम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः' ॥ ३२ ॥
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् । |
स्त्रीणामिति ॥ सुखोच्चार्यमक्रूरार्थवाचि व्यक्ताभिधेयं मनःप्रीतिजननं मङ्गलवाचि दीर्घस्वरान्तं आशीर्वाचकेनाभिधानेन शब्देनोपेतं स्त्रीणां नाम कर्तव्यम् । यथा यशोदादेवीति ॥ ३३ ॥