महाभारतम्-05-उद्योगपर्व-027

विकिस्रोतः तः
← उद्योगपर्व-026 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-027
वेदव्यासः
उद्योगपर्व-028 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सञ्जयेन युधिष्ठिरंप्रति युद्धे दोषोद्भावनपूर्वकं परैभोगाप्रदानेपि शमाश्रयगम्यैव .....कथनम् ।। 1 ।।




























सञ्जय उवाच।

5-27-1x

धर्मनित्या पाण्डव ते विचेष्टा
लोके श्रुता दृश्यते चापि पार्थ ।
महाश्रावं जीवित चाप्यनित्यं
संपश्य त्वं पाण्डव मा व्यनीनशः ।।

5-27-1a
5-27-1b
5-27-1c
5-27-1d

नचेद्भागं कुरवोऽन्यत्र युद्धा-
त्प्रयच्छेरंस्तुभ्यमजातशत्रो।
भैक्षचर्यामन्धकवृष्णिराज्ये
श्रेयो मन्ये न तु युद्धेन राज्यम् ।।

5-27-2a
5-27-2b
5-27-2c
5-27-2d

अल्पकालं जीवितं यन्मनुष्ये
महास्रावं नित्यदुःखं चलं च।
भूयश्च तद्यशसो नानुरूपं
तस्मात्पापं पाण्डव मा कृथास्त्वम् ।।

5-27-3a
5-27-3b
5-27-3c
5-27-3d

कामा मनुष्यं प्रसजन्त एते
धर्मस्य ये विघ्नमूलं नरेन्द्र ।
पूर्वं नरस्तान्मतिमान्प्रणिघ्नन्
लोके प्रशंसां लभतेऽनवद्याम् ।।

5-27-4a
5-27-4b
5-27-4c
5-27-4d

निबन्धनी ह्यर्थतृष्णेह पार्थ
तामिच्छतां बाध्यते धर्म एव।
धर्मं तु यः प्रणृणीते स बुद्धः
कामे गृध्नो हीयतेऽर्थानुरोधात् ।।

5-27-5a
5-27-5b
5-27-5c
5-27-5d

धर्मं कृत्वा कर्मणां तात मुख्यं
महाप्रतापः सवितेव भाति।
हीनो हि धर्मेण महीमपीमां
लब्ध्वा नरः सीदति पापबुद्धिः ।।

5-27-6a
5-27-6b
5-27-6c
5-27-6d

वेदोऽधीतश्चरितं ब्रह्मचर्यं
यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् ।
परं स्थानं मन्यमानेन भूय
आत्मा दत्तो वर्षपूगं सुखेभ्यः ।।

5-27-7a
5-27-7b
5-27-7c
5-27-7d

सुखप्रिये सेवमानोऽतिवेलं
योगाभ्यासे यो न करोति कर्म।
वित्तक्षये हीनसुखोऽतिवेलं
दुःखं शेते कामवेगप्रणुन्नः ।।

5-27-8a
5-27-8b
5-27-8c
5-27-8d

एवं पुनर्ब्रह्मचर्याऽप्रसक्तो
हित्वा धर्मं यः प्रकरोत्यधर्मम्।
अश्रद्दधत्परलोकाय मूढो
हित्वा देहं तप्यते प्रेत्य मन्दः ।।

5-27-9a
5-27-9b
5-27-9c
5-27-9d

न कर्मणां विप्रणाशोऽस्त्यमुत्र
पुण्यानां वाऽप्यथवा पापकानाम् ।
पूर्वं कर्तुर्गच्छति पुण्यपापं
पश्चात्त्वेनमनुयात्येव कर्ता ।।

5-27-10a
5-27-10b
5-27-10c
5-27-10d

न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं
श्रद्धापूतं गन्धरसोपपन्नम् ।
अन्वाहार्येषूत्तमदक्षिणेषु
तथारूपं कर्म विख्यायते ते ।।

5-27-11a
5-27-11b
5-27-11c
5-27-11d

इह क्षेत्रे क्रियते पार्थ कार्यं
न वै किंचित्क्रियते प्रेत्य कार्यम् ।
कृतं त्वया पारलोक्यं च कर्म
पुण्यं महत्सद्भिरतिप्रशस्तम् ।।

5-27-12a
5-27-12b
5-27-12c
5-27-12d

जहाति मृत्युं च जरां भयं च
न क्षुत्पिपासे मनसोऽप्रियाणि।
न कर्तव्यं विद्यते तत्र किंचि-
दन्यत्र वै चेन्द्रियप्रीणनाद्धि ।।

5-27-13a
5-27-13b
5-27-13c
5-27-13d

एवंरूपं कर्मफलं नरेन्द्र
मातापित्रोर्हृदयस्याप्रियेण।
त्यज क्रोधं पाण्डव हर्षजं च
लोकावुभौ मा प्रहासीश्चिराया ।।

5-27-14a
5-27-14b
5-27-14c
5-27-14d

अन्तं गत्वा कर्मणां या प्रशंसा
सत्यं दमं चार्जवमानृशंस्यम् ।
अश्वमेधं राजसूयं तथेष्ट्वा
पापस्यान्तं कर्मणो मा पुनर्गाः ।।

5-27-15a
5-27-15b
5-27-15c
5-27-15d

तच्चेदेवं द्वेषरूपेण पार्थाः
करिष्यध्वं कर्म पापं चिराय।
निवसध्वं वर्षपूगान्वनेषु
दुःखं वासं पाण्डवा धर्म एव ।।

5-27-16a
5-27-16b
5-27-16c
5-27-16d

प्रव्रज्यया यातयित्वा पुरस्ता-
दात्माधीनं यद्बलं ते तदाऽसीत्।
नित्यं च वश्याः सचिवास्तवेमे
जनार्दनो युयुधाश्च वीरः ।।

5-27-17a
5-27-17b
5-27-17c
5-27-17d

मत्स्यो राजा रुक्मरथः सपुत्रः
प्रहारिभिः सहपुत्रैर्विराटः।
राजानस्ते ये विजिताः पुरस्ता-
त्त्वामेव ते संश्रयेयुः समस्ताः ।।

5-27-18a
5-27-18b
5-27-18c
5-27-18d

महासहायः प्रतपन्बलस्थः
पुरस्कृतो वासुदेवार्जुनाभ्याम्।
वरान्हनिष्यन्द्विषतो रङ्गमध्ये
व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ।।

5-27-19a
5-27-19b
5-27-19c
5-27-19d

बलं कस्माद्वर्धयित्वा परस्य
निजान्कस्मात्कर्शयित्वा सहायान्।
निरुष्य कस्माद्वर्षपूगान्वनेषु
युयुत्ससे पाण्डव हीनकाले।।

5-27-20a
5-27-20b
5-27-20c
5-27-20d

अप्राज्ञो वा पाण्डव युद्ध्यमानो-
ऽधर्मज्ञो वा भूतिमथोऽभ्युपैति।
प्रज्ञावान्वा बुद्ध्यमानोऽपि धर्मं
संस्तम्भाद्वा सोऽपि भूतेरपैति ।।

5-27-21a
5-27-21b
5-27-21c
5-27-21d

नाधर्मे ते धीयते पार्थ बुद्धि-
र्न संरम्भात्कर्म चकर्थ पापम् ।
आत्थ किं तत्कारणं यस्य हेतोः
प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ।।

5-27-22a
5-27-22b
5-27-22c
5-27-22d

अव्याधिजं कटुकं शीर्षरोगि
यशोमुषं पापफलोदयं वा।
सतां पेयं यन्न पिबन्त्यसन्तो
मन्युं महाराज पिब प्रशाम्य ।।

5-27-23a
5-27-23b
5-27-23c
5-27-23d

पापानुबन्धं को नु तं कामयेत
क्षमैव ते ज्यायसी नोत भोगाः ।
यत्र भीष्मः शान्तनवो हतः स्या-
द्यत्र द्रोणः सहपुत्रो हतः स्यात् ।।

5-27-24a
5-27-24b
5-27-24c
5-27-24d

कृपः शल्यः सौमदत्तिर्विकर्णो
विविंशतिः कर्णदुर्योधनौ च।
एतान्हत्वा कीदृशं तत्सुखं स्या-
द्यद्विन्देथास्तदनुब्रूहि पार्थ ।।

5-27-25a
5-27-25b
5-27-25c
5-27-25d

लब्ध्वाऽपीमां पृथिवीं सागरान्तां
जरामृत्यू नैव हि त्वं प्रजह्याः।
प्रियाप्रिये सुखदुःखे च राज-
न्नैवं विद्वान्नैव युद्धं कुरु त्वम् ।।

5-27-26a
5-27-26b
5-27-26c
5-27-26d

अमात्यानां यदि कामस्य हेतो-
रेवं युक्तं कर्म चिकीर्षसि त्वम्।
अपक्रमेः स्वं प्रदायैव तेषां
मागास्त्वं वै देवयानात्पथोऽद्य ।।

5-27-27a
5-27-27b
5-27-27c
5-27-27d

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सञ्जययानपर्वणि सप्तविंशोऽध्यायः ।।

[सम्पाद्यताम्]

5-27-1 महान् श्रावः श्रवणं यण महाकीर्तीत्यर्थः। मा व्यनीनशः क्रोधेन धार्तराष्ट्रन् मा नाशय ।। 1 ।।

5-27-4 प्रसजन्ते स्पृशन्ति ।। 4 ।।

5-27-5 गृघ्नः स्पृहावान् ।। 5 ।।

5-27-6 कर्मणां अर्थकामाद्यर्थानां मध्ये ।। 6 ।।

5-27-7 परं स्थानं परलोकं मन्यमानेन मानयता। पर्षपूगं वर्षगणम्। तत्रत्यसुखेभ्यस्तदर्थं त्वया आत्मापि दत्तः ।। 7 ।।

5-27-8 सुखप्रिये भोगान् पुत्रादींश्च सेवमानः । योगाभ्यासे चित्तवृत्तिनिरोधमभ्यसितुं कर्म आसनप्राणायामादिकं न करोति ।। 8 ।।

5-27-9 धर्मं च यज्ञादिरूपं हित्वा यः अधर्ममेव प्रकरोति संचिनोति ।। 9 ।।

5-27-10 कृतं कर्म भोगं विना आत्मज्ञानं विना वा न नश्यतीत्यर्थः ।। 10 ।।

5-27-11 अन्वाहार्येष्वित्यनेन श्रौतमिष्ट्यादिकं लक्ष्यते। तत्रहि अन्वाहार्यो दक्षिणात्वेन दीयते ।। 11 ।।

5-27-12 कार्यं धर्मः । प्रेत्य मृत्वा ।। 12 ।।

5-27-13 परलोके कर्म नास्तीत्याह जहातीति ।। 13 ।।

5-27-14 अत्र कर्म कुर्वन् कामवशादमुत्र फलं न प्रार्थयेतेत्यर्थः । कर्मजं फलं त्यक्त्वा परेण वैराग्येण संपन्नो मोक्षार्थं योगाभ्यासमेव कुरुष्व किं राज्येन बन्धुनाशलभ्येनेत्यर्थः ।। 14 ।।

5-27-16 तच्चेदिति। भो पार्थाः भो पाण्डवाः तत्पापं कर्म गोत्रवधरूपं द्वेषरूपेण चिराय प्रागेव चेत्करिष्यध्वं तर्हि यद्वने वर्षपूगान् दुःखं वासं निवसध्वं तद्धर्म एवेति यत्तत्पदाध्याहारेण योज्यम्। राज्यार्थं सर्वलोकनाशमिच्छतां भवतां दुर्योधनेन यो वनवासः कारितः स धर्म एवेत्यर्थः ।। 16 ।।

5-27-17 पुरस्तात् प्रव्रजनकाले एव यत् यतः पुरस्तादपि एतद्बलं आत्माधीनमेवासीत्। ज्ञातिवधेनापि राज्यसुखमावश्यकं चेत्तर्हि पूर्वमेव सहायसत्वात्कुतो न युद्धं कृतमिति एतदादिश्लोकचतुष्टयर्थः ।। 17 ।।

5-27-20 हीनकाले गते काले इत्यर्थः ।। 20 ।।

5-27-21 सर्वथापि युद्धं न कर्तव्यं जयपराजययोरव्यवस्थितत्वादित्याह अप्राह इति। भूतेरपैति दैवादिति शेषः ।। 21 ।।

5-27-23 अव्याधिजं कटुकं पित्तादिकं विनाप्यरोचकम् । यशोमुषं यशोहरम्। पेयं गिलनीयम्। मन्युं क्रोधम्। प्रशाम्य शान्तो भव ।। 23 ।।

5-27-27 देवयानात्पथोऽर्चिरादिमार्गादपुनरावृत्तिफलात् गोत्रद्रोहेण मागा इत्यर्थः ।। 27 ।।

उद्योगपर्व-026 पुटाग्रे अल्लिखितम्। उद्योगपर्व-028