पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यादि लक्षणं भूरि काव्यस्यादुर्महर्षयः । स्वर्णभ्राजिष्णुभानुत्वप्रभृतीव महीभुजः ॥ ११ ॥ इति श्रीजयदेवकविवरविरचिते चन्द्रालोके लक्षणनिरूपणो नाम तृतीयो मयूखः ।। चतुर्थों मयूखः४ अथ गुणः- श्लेषो विघटमानार्थघटमानत्ववर्णनम् । स तु शब्दैः सजातीयैः शब्दैवन्धः सुखावहः ॥१॥ उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः । भीतया मानवत्येव श्रियाश्लिष्टं हरिं स्तुमः ॥२॥ यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते। सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः॥३॥ समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा। श्यामला कोमला वाला मरणं शरणं गता ॥४॥ समाधिरर्थमहिमा लसद्धनरसात्मना । स्थादन्तर्विशता येन गात्रमङ्कुरितं सताम् ॥ ५ ॥ माधुर्य पुनरुक्तस्य वैचित्र्यचारुतावहम् । वयस्य पश्य पश्यास्य चञ्चलं लोचनाञ्चलम् ॥ ६॥ ओजः स्यात्प्रौढिरर्थस्य सङ्ग्रेपो वातिभूयसः। रिपुं हत्वा यशः कृत्वा त्वदसिः कोशमाविशत् ॥ ७ ॥ सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात् । स कथाशेषतां यातः समालिङ्गय मरुत्लखम् ॥ ८॥ उदारता तु वैदग्ध्यमग्राम्यत्वात्पृथङाता। मानं मुञ्च प्रिये किंचिल्लोचनं समुदञ्चय ॥९॥ शृङ्गारे च प्रसादे च कान्त्यर्थ व्यक्तिसंग्रहः । अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा ॥ १०॥ तिलकाद्यमिव स्त्रीणां विदग्धहृदयंगमम् । व्यतिरिक्तमलंकारप्रकृतेर्भूषणं गिराम् ॥ ११ ॥ विचित्रलक्षणन्यासो निर्वाहः प्रौढिरौचिती। शास्त्रान्तररहस्योक्तिः संग्रहो दिक् प्रदर्शिता ॥ १२ ॥ इति श्रीजयदेवकविवरविरचिते चन्द्रालोके गुणनिरूपणो नाम चतुर्थो मयूखः॥