पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ तेच वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥ १० ॥ शुद्धतन्मूलसंभिन्नप्रसेदैयौगिकस्त्रिधा। ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ ११॥ रूढियौगिकमाह-- तमिश्रोऽन्योन्यसामान्यविशेषपरिवर्तनात् । नीरधिः पङ्कजं सौधं सागरो भूरुहः शशी ॥ १२॥ सामान्यपरिवृत्त्या यत्सिद्ध्यति तदाह- क्षीरनीरधिराकाशपङ्कजं तेन सिध्यति । विभक्त्यन्तं पदं वाक्यं तड्यूहोऽर्थसमाप्तितः ॥ १३ ॥ युक्तार्थता तां च विना खण्डकाव्यं स इष्यते । वाक्यं च खण्डवाक्यं च पदमेकमपि क्वचित् ॥ १४ ॥ क्रमादुदाहरति- धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा। वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् ॥ १५ ॥ महादेवः सत्रप्रमुखमखविद्यैकचतुर सुमित्रातद्भक्तिप्रणिहितमतिर्यस्य पितरौ। अनेनासावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः॥ १६ ॥ इति श्रीजयदेवकविविरचिते चन्द्रालोकालंकारे वाग्विचारो नाम प्रथमो मयूखः । द्वितीयो मयूखः २ दोषनिरूपणम्- स्याञ्चेतोविशता येन सक्षता रमणीयता। शब्देऽथै च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ॥१॥ भवेच्छुतिकटुवर्णः श्रवणोद्वेजने पटुः विदुष्यते व्याकर्णविरुद्धच्युतसंस्कृतिः॥२॥ अप्रयुक्तं दैवतादौ शब्दे पुंलिङ्गतादिकम् । असमर्थ तु हन्त्यादेःप्रयोगो गमनादिषु ॥ ३॥ स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः। निहतार्थ लोहितादौ शोणितादिप्रयोगतः॥४॥ एकाक्षरं विना भूभूक्ष्मादिकं खतलादिवत् । व्यनत्यनुचितार्थ यत्पद्माहुस्तदेव तत् ॥५॥ इयमुद्धतशाखाग्रकेलिकौतुकवानरी । निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ॥ ६॥ .