सक्ताः कर्तृत्वाभिमानेन फलाभिसंधिना च कर्मण्यभिनिविष्टा अविद्वांसोऽज्ञा यथा
कुर्वन्ति कर्म लोकसंग्रहं कर्तुमिच्छर्विद्वानात्मविदपि तथैव कुर्यात् । किंतु असक्तः
सन्कर्तृत्वाभिमानं फलाभिसंधिं चाकुर्वन्नित्यर्थः । भारतेति भरतवंशोद्भवत्वेन भा ज्ञानं
तस्यां रतत्वेन वा त्वं यथोक्तशास्त्रार्थबोधयोग्योऽसीति दर्शयति ॥ २५ ॥
श्री० टी० --तस्मादात्मविदाऽपि लोकसंग्रहार्थं तत्कृपया कर्म कार्य[१]मित्युपसंहरति-सक्ता इति । कर्मणि सक्ता अभिनिविष्टाः सन्तोऽज्ञा यथा कर्म कुर्वन्ति असक्तः सन्विद्वानपि तथैव कुर्याल्लोकसंग्रहं कर्तुमिच्छुः ॥ २५ ॥
म० टी०-ननु कर्मानुष्ठानेनैव लोकसंग्रहः कर्तव्यो न तु तत्त्वज्ञानोपदेशेनेति को हेतुरत आह-
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ॥ |
अज्ञानामविवेकिनां कर्तृत्वाभिमानेन फलाभिसंधिना च कर्मसङ्गिनां कर्मण्यभिनिविष्टानां या बुद्धिरहमेतत्कर्म करिष्य एतत्फलं च भोक्ष्य इति तस्या भेदं विचालनमकर्त्रात्मोपदेशेन न कुर्यात् । किंतु युक्तोऽवहितः सन्विद्वाल्लोकसंग्रहं चिकीर्षुरविद्वदधिकारिकाणि सर्वकर्माणि समाचरस्तेषां श्रद्धामुत्पाद्य जोषयेत्प्रीत्या सेवयेत् । अनधिकारिणामुपदेशेन बुद्धिविचालने कृते कर्म[२]सु श्रद्धानिवृत्तेर्ज्ञानस्य चानुत्पत्तेरुभयभ्रष्टत्वं स्यात् । तथा चोक्तम्-
"अज्ञस्यार्धप्रबुद्धस्य सर्व ब्रह्मेति यो वदेत् । |
श्री०टी०ननु कृपया तत्त्वज्ञानमेवोपदेष्टुं युक्तं नेत्याह-नेति । अज्ञानामत एव कर्मसङ्गिनां कर्मासक्तानामकर्त्रात्मोपदेशेन बुद्धर्भेदमन्यथात्वं न जनयेत्कर्मणः सकाशाद्बुद्धिचालनं न कुर्यात् , अपि तु जोषयेत्सेवयेत्। “जुषी" प्रीतिसेवनयोः । अज्ञाकर्माणि कारयेदित्यर्थः । कथं, युक्तोऽवहितो भूत्वा स्वयमाचरन्सन् । बुद्धिचालने कृते सति कर्मसु श्रद्धानिवृत्तेर्ज्ञानस्य चानुत्पत्तेस्तेषामुभयभ्रंशः स्यादिति भावः ॥२६॥
म० टी०-विद्वदविदुषोः कर्मानुष्ठानसाम्येऽपि कर्तृत्वाभिमानतदभावाभ्यां विशेषं दर्शयन्सक्ताः कर्मणीतिश्लोकार्थं विवृणोति द्वाभ्याम्-
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ॥ |