पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
172
नैषधीयचरिते

राब्जभुवां युगमिव विरहिणामपि वियोगिस्त्रीपुंससंबन्धि युगं गणितागमे ज्योतिःशास्त्रे रतवन्तः सुरतयुक्ता युवानः स्त्रीपुंसाः, तत्संबन्धिना निमेषचतुर्थांशलक्षणेन क्षणेन मितं गणितं सत् कथमिति न भवति नास्ति, अपितु तदपि ज्योतिःशास्त्रे गणकै रतवद्युवक्षणेन संगमनीयम् । तत्तु न कृतम् । अनुचितमेतदित्याक्षेपः प्रश्नो वा । यद्वा यावता यदनेहसा यस्य युगं भवति तद्युगं रतयुक्तयोर्यूनोः क्षणेन मितं गणितशास्त्रे विरहिणामपि कथं न भवति । केषामिव-नरसुराब्जभुवामिव । यथा षष्ट्यधिका दिनानां त्रिंशती मनुष्याणां वर्षम्, तद्देवानामहोरात्रम्, एवं देवानां द्वादशसाहस्री चतुर्युगम् , (तावती रात्रिः), तदेवं चतुर्युगसहस्रं ब्रह्मदिनम्, तावत्येव रात्रिः ब्रह्मणः, पञ्चाशता वर्षैः परार्धम् , एवं परार्धद्वयं परमायुः। अनया रीत्या युगादिकल्पना मनुष्यादीनां ज्योतिःशास्त्रे यथा गणिता तथा विरहिणां संयुक्तानां च गणितशास्त्रे युगगणना कथं न कृता । संयुक्तानां क्षणोऽपि वियुक्तानामनतिक्रमणीयत्वाद्युगतुल्यो जायत इत्यर्थ इति यथाबुद्धि योजनीयः श्लोकः । युगगणनायां नरकालस्य मुख्यत्वादभ्यर्हितत्वेन नरशब्दस्य पूर्वनिपातः । एवं ब्रह्मण इत्यपेक्षया सुराणां कालस्य । विरहिणां, रतवद्युव, इति 'पुमान्स्त्रिया' इत्येकशेषः॥

  जनुरधत्त सती स्मरतापिता हिमवतो न तु तन्महिमाहता ।
  ज्वलति भालतले लिखितः सतीविरह एव हरस्य न लोचनं ॥४५ ॥

जनुरिति ॥ सती दाक्षायणी स्मरतापिता सती हिमवतः सकाशाज्जनुर्जन्म अधत्ताङ्गीचकार । तस्य हिमाचलस्य महिम्नि देवस्वरूपोऽयमिति महत्त्वे आदृता आदरयुक्ता नतु नैव जन्म धत्ते । हिमाकरत्वात्कामतापशान्त्यर्थं जन्माङ्गीकृतवती, नतु देवत्वात् । किंच हरस्य भालतले ललाटे ब्रह्मणा लिखितः सतीविरह एव ज्वलति, नतु लोचनं तृतीयं नेत्रम् । भविष्यद्विषया दैवी लिपिर्ललाटे लिख्यते । ज्वलतीत्यसह्यत्वं सूचितम् । यौ जगतो मातापितरौ तयोरपि विरहेणेदृश्यवस्था, मादृशी कथं जाता भविव्यतीति भावः । 'जनुर्जननजन्मानि' इत्यमरः । हिमवतः नित्ययोगें निन्दायां वा मतुप् ॥

  दहनजा न पृथुर्दवथुव्यथा विरहजैव पृथुर्यदि नेदृशम् ।
  दहनमाशु विशन्ति कथं स्त्रियः प्रियमपासुमुपासितुमुद्धुराः॥४६॥

दहनजेति ॥ दहनजाग्निजाता दवथुव्यथा दाहपीडा न पृथुर्गुर्वी । किंतु विरहजैव दाहव्यथा पृथुः। असह्येत्यर्थः। अत्रार्थेऽन्यथानुपपत्तिं वा प्रमाणयति यदीदृशं न स्याद्विपरीतमेव चेत्स्यात्, तर्हि अपगता असवःप्राणा यस्य तं मृतं प्रियमुपासितुं सेवितुमुद्धुरा उत्सुकाः सोल्लासा स्त्रियः आशु झटिति कालविलम्बमकृत्वैव दहनमग्निं कथं प्रविशन्ति । तस्माद्वगह्नेरपि सकाशाद्विरहपीडैव पृथुरिति । 'तथा' इति युक्तः पाठः॥


१ 'अत्रोपमातिशयोक्तिश्च' इति साहित्यविद्याधरी । २ 'अत्रापह्नुतिः' इति साहित्यविद्याधरी। 'आरोप्यापह्नवालंकारः' इति जीवातुः। ३ 'अत्रानुमानम्' इति साहित्यविद्याधरी । 'कार्येण कारणसमर्थनरूपोऽर्थान्तरन्यासः' इति जीवातुः