पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैषधीयचरितस्य तस्मादद्भुतविक्रमादथ जयच्चन्द्राभिधानः पति- भूपानामवतीर्ण एष भवनोद्धाराय नारायणः । द्वैधीभावमपास्य विग्रहरुचिं धिकृत्य शान्ताशया सेवन्ते यमुदप्रबन्धनभयध्वंसार्थिनः पार्थिवाः ॥ १३ ॥ गच्छेन्मूर्छामतुच्छां न यदि कवलयेत्कूर्मपृष्ठाभिघात- प्रत्यावृत्तः श्रमार्तों नमदखिलफणश्वासवात्या सहस्रम् । उद्योगे यस्य धावद्धरणिधरधुनीनिझरस्फारधार- भ्रश्यद्दानद्विपालीबहलभरगलर्यमुद्रः फणीन्द्रः ॥ १४ ॥ सोयं समस्तराजचक्रसंसेवितचरणः परमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वरनिजभु- जोपार्जितकान्यकुब्जाधिपत्यश्रीचन्द्रदेवपादानुव्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरपरममा- हेश्वरश्रीमदनपालदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वराश्वपतिगजप- तिनरपतिराजत्रयाधिपतिविविधविद्याविचारवाचस्पतिश्रीगोविन्दचन्द्रदेवपादानुध्यातपरमभ- ट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वराश्वपतिगजपतिनरपतिराजत्रयाधिपतिविविध विद्याविचार- वाचस्पतिश्रीविजयचन्द्रदेवपादानुध्यातपरममहाराजाधिराजपरमेश्वरपरममाहेश्वराश्वपतिगजप- तिनरपतिराजत्रयाधिपतिविविधविद्याविचारवाचस्पतिश्रीमज्जयच्चन्द्रो विजयी असुरेसपत्त- लायां केमौलीग्रामनिवसिनो निखिलजनपदानुपगतानपि च राजराज्ञीयुवराजमन्त्रिपुरोहितप्रति- हारसेनापतिभाण्डागारिकाक्षपटलिकभिषडैमित्तिकान्तःपुरिकदूतकरितुरगपत्तनाकरस्थानगोकु- लाधिकारिपुरुषानाज्ञापयति बोधयत्यादिशति च-विदितमस्तु भवतां यथोपरिलिखितग्रामः

सलोहलवणाकरःसमत्स्याकरः सगर्तोषरः सगिरिगहननिधानः समधुकाम्रवनवाटिका-

विटपतृणयूतिगोचरपर्यन्तः सोर्ध्वाधश्चतुराघाटविशुद्धः स्वसीमापर्यन्तस्त्रिचत्वारिंशदधिकद्वादश- शतसंवत्सरे आषाढे मासि शुक्लपक्षे सप्तम्यां तिथौ रविदिने । अङ्कतोपि संवत् १२४३ आषाढशुदि रखौ ७ । अद्येह श्रीमद्वाराणस्यां गङ्गायां स्नात्वा विधिवन्मन्त्रदेवमुनिमनुजभूतपितृगणांस्तर्पयित्वा तिमिरपटलपाटनपटुमहसमुष्णरोचिषमुपस्थायौषधिपतिशकलशेखर समन्वय॑ त्रिभुवनत्रातुर्भ- गवतो वासुदेवस्य पूजां विधाय प्रचुरपायसेन हविषा हविर्भुजं हुत्वा मातापित्रोरात्मनश्च पुण्ययशो- भिवृद्धयेऽस्माभिर्गोकर्णकुशलतापूतकरतलोदकपूर्वकं भारद्वाजगोत्राय भारद्वाजाङ्गिरसबार्हस्पत्येति- त्रिप्रवराय राउतश्रीआढलेपौत्राय राउतश्रीदुंढापुत्राय डोड राउतश्री अणंगाय चन्द्राकै याव- च्छासनीकृत्य प्रदत्तो मत्वा यथादीयमानभोगभोगकरप्रवणिकरप्रभृतिनियतानियतसमस्तदाया- दाज्ञाविधेयीभूय दास्यथ' इति । भवन्ति चात्र श्लोकाः भूमिं यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ॥ सजलस्थल: