स्थगयन्त्यमूः शमितचातकार्तस्वरा
जलदास्तडित्तुलितकान्तकार्तस्वराः ।
जगतीरिह स्फुरितचारुचामीकरा:
सवितुः क्वचित् कपिशयन्ति चामी कराः ॥ २४ ॥
स्थगयन्तीति ॥ इहाद्रौ क्वचिदमूर्जगतीभूमीः । 'जगती भुवने भूमौ' इति विश्वः । शमिताश्चातकानामार्तस्वरा यैस्ते शमितचातकार्तस्वराः । 'सर्वसहापतितमम्बु न चातकानाम्' इति भूमिगतस्य तेषां विषाभत्वादभौमाम्बुदानेनोज्जीवयन्तीत्यर्थः । किंच तडिद्भिस्तुलितान्युपमितानि कान्तानि कार्तस्वराणि सुवर्णानि यैस्ते तडित्तुलितकान्तकार्तस्वराः । तडित्स्फुरणे तेषामपि तद्वत्स्फुरणादिति भावः । ते जलदाः स्थगयन्त्याच्छादयन्ति । 'स्थग आच्छादने' इति चौरादिकः । क्वचित्तु स्फुरितान्युल्लसितानि चारूणि चामीकराणि सुवर्णानि यैस्ते स्फुरितचारुचामीकरा अमी सवितुः कराः, आतपाश्च कपिशयन्ति कपिशिताः कुर्वते । क्वचिदृष्टिः क्वचिदातपश्चेति महदाश्चर्यमिति भावः । पथ्या वृत्तम् । 'सजसा यलौ च सह गेन पथ्या मता ॥ २४ ॥
उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बै-
रुत्तम्भितोडुभिरतीवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य
विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ २५ ॥
उत्क्षिप्तमिति ॥ उच्छ्रिता उत्क्षिप्ताः सितांशोश्चन्द्रस्य करा अंशवो हस्ताश्चावलम्बो येषां तैः । उत्तम्भितान्युडूनि यैस्तैः । उडूनि चावष्टभ्येत्यर्थः । शिरोभिः शिखरैर्मस्तकैश्चातीवतरां भृशतरम् । अतीवशब्दादव्ययादामुप्रत्ययः । उत्क्षिप्तमुद्यम्य धृतं अन्तरीक्षं श्रद्धेयः सादृश्याद्विश्वसनीयो निर्झरजलमिति व्यपदेशो व्यवहारो यस्य तत् । दृढतरां निर्झरजलधियं कुर्वदित्यर्थः । अस्याद्रेस्तटेषु विष्वक् सम न्तात् पतति स्फुटं सत्यम् । इन्दुकरानुडूनि चावष्टभ्य शिरोभिर्धियमाणमपि दुरुद्धरत्वाद्भ्रश्यदन्तरीक्षमेवेदं न तु जलम् । सादृश्यात्तु व्यपदेशो दुर्वार इति सर्वतः पातिता, निर्झरजलं चोत्प्रेक्ष्यते । तेनोत्सेधविस्तारावस्य व्यज्यते ॥ २५ ॥
एकत्र स्फटिकतटांशुभिन्ननीरा
नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते
वैदग्धीमिह सरितः सुरापगायाः ॥ २६ ॥
एकत्रेति ॥ एकत्र एकस्मिन्भागे स्फटिकस्य यत्तटं तस्यांशुभिर्विभिन्ननीरा
मिश्रोदकाः । शुभ्रजला इत्यर्थः । अपरत्र अपरस्सिन्भागे नीलाश्मनामिन्द्रनीलानां