रहसि ॥"मिथोऽन्योन्यं रहस्यपि" इत्यमरः ॥ जायां पत्नीं सीतामिति वक्ष्यमाणप्रकारेणोवाच ॥ रामस्य हरिरित्यभिधानं निरङ्कुशमहिमद्योतनार्थम् ॥ मिथोग्रहणं गोष्ठीविश्रम्भसूचनार्थम् ॥
वैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ २ ॥
वैदेहीति ॥ हे वैदेहि सीते । आ मलयान्मलयपर्यन्तम् ॥ “पञ्चम्यपाङ्परिभिः" इति पञ्चमी ॥ पदद्वयं चैतत् ॥ मत्सेतुना विभक्तं द्विधाकृतम् । अत्यायतसेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् ॥ फेनिलं फेनवन्तम् ॥ “फेनादिलच्च" इतीलच्प्रत्ययः ॥ क्षिप्रकारी चायमिति भावः । अम्बुराशिम् । छायापथेन विभक्तं शरत्प्रसन्नमाविष्कृतचारुतारमाकाशमिव । पश्य ॥ मम महानयं प्रयासस्त्वदर्थ इति हृदयम् ॥ छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ॥
गुरोर्यियक्षोः कपिलेन मे[१]ध्ये रसातलं संक्रमिते तुरंगे।
तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ ३ ॥
गुरोरिति ॥ यियक्षोर्यष्टुमिच्छोः ॥ यजेः सन्नन्तादुप्रत्ययः । गुरोः सगरस्य मेध्येऽश्वमेधार्हे तुरंगे हये कपिलेन मुनिना रसातलं पातालं संक्रमिते सति । तदर्थमुर्वीमवदारयद्भिः खनद्भिर्नोऽस्माकं पूर्वैर्वृद्धः सगरसुतैरयं समुद्रः परिवर्धितः किल । किलेत्यैतिह्ये । अतो नः पूज्य इति भावः । यद्यपि तुरंगहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति तेषां भ्रान्तिः । तन्मत्वैव कविना कपिलेनोति निर्दिष्टम् ॥
गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि ।
अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ ४ ॥
गर्भमिति ॥ अर्कमरीचयोऽस्मादब्धेः । अपादानात् । गर्भमम्मयं दधति । वृष्ट्यर्थमित्यर्थः । अयमर्थो दशमसर्गे “ताभिर्गर्भ:-" (५८) इत्यत्र स्पष्टीकृतः । अयं लोकोपकारीति भावः । अत्राब्धौ वसूनि धनानि ॥ “धने रत्ने वसु स्मृतम्" इति विश्वः ॥ विवृद्धिमश्रुवते प्राप्नुवन्ति । संपद्वानित्यर्थः । असावाप इन्धनं दाह्यं यस्य तद्दाहकं वह्नि बिभर्ति । अपकारेऽप्याश्रितं न त्यजतीति भावः। अनेन प्रह्लादनमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितम् ॥ जनेर्ण्यन्तात्कर्मणि लुङ् ॥ सौम्य इति भावः ॥
तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना।
विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥ ५ ॥
तां तामिति ॥ तां तामनेकाम् ॥ “नित्यवीप्सयोः" इति वीप्सायां द्वि-
- ↑ पूर्वम्.