सामग्री पर जाएँ

पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः प्रथमः खण्डः

आजिगं चाभीकं च ऋषभश्च पवमानः । औक्ष्णोरन्ध्रो वा । आभीकं चैव । बाभ्रवे द्वे । इन्द्राण्याः साम । शैशवे द्वे । प्रजापतेर्दोहादोहीये द्वे । इन्द्राण्याश्चैव साम । आमहीयवं च॥५.१.१॥

उच्चा ते जातमन्धसः (सा. ४६७) इत्यत्र त्रयोदश सामान्युत्पन्नानि । तत्र प्रथमम् उच्चातेजा (ग्राम. १२.१. ४६७.१) इति मन्द्रचतुर्थादिकम् आजिगम् । आजियुद्धं तद्वत् । प्रतते द्वादशाहे तु हि गीयते तद् गमनसाधनं साम । [आजिजितिगमन] साधनमित्यर्थः । तथा च ब्राह्मणम् - आजिगं भवत्याजि- जित्याया आजिर्वा एष प्रततो यद् द्वादशाहस्तस्यैतदुज्जित्यै (तां ब्रा. १५. ९. ६-७) इति । सर्वत्र चकारो वाक्यभेदद्योतनार्थः । उच्चातेजा (ग्राम. १२.१. ४६७.२) इति द्वितीयक्रुष्टादिकम् आभीकम् अभिक्रमण- साधनमेतन्नामधेय साम । तथा च ब्राह्मणम् आभीकं भवत्यभिक्रान्त्या आङ्गिरसस्तपस्तेपानाः शुचमशोचंस्त एतत्सामापश्यंस्तानभीकेऽभ्य- वर्षतेन शुचमशमयन्त । यदभीकेऽभ्यवर्षत्तस्मादाभीकम् (ता. बा. १५. ९. ८-९) इति । हाहाउच्चातेजा (ग्राम. १२. १. ४६७. ३) इति मन्द्रादिक तृतीयम् ऋपभः पवमानः एतत्संज्ञम् । ऋषभ इव ऋषभः । तच्च ऋषभः पवमानो भवति । पशवो वै छन्दोमाः (ता. बा. १५. ३. १७) इत्यादि ब्राह्मणमनुसंधेयम् । अत्र विकल्पः । अथवा एतत्