पृष्ठम्:Dvisandhanam kavya.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । २२५ अथेति ॥ स विष्णु: काले यथोचितावसरे करणमात्रिकान् अधिकारिणोऽर्थान- पेक्षान् उत्कोचादिशुद्धान् , पौरानगरवासिनोनहारानर्तकान् निःस्पृहान् , नम्रीभवचरण- नितम्बइस्तान अद्राक्षीत् ॥ ततसारतमास्थासु सुभावानभितारधीः । धीरताभिनवाभासु सुस्थामा तरसातत ॥ १४३ ॥ (गतप्रत्यागतम्) ततेति ॥ अभितारधीः अभिगता तारा धीर्यस्येति सकलशास्त्ररसरसिकवुद्धिः, सुस्थामा बलीयान् स विष्णुः धीरतानिनवाभासु निःक्षोभतरुणप्रतापासु ततसारतमास्थासु विस्तृ- तसारतमप्रतिज्ञासु सुभावान् सुनुपरिणामान् आतत विस्तृतवान् ॥ क्षयलोभविरागहेतवः प्रकृतीनामभवन यत्र यः । रिपुमध्यकृतास्य केवलं परवध्वः परकीयतां ययुः ॥ १४४ ॥ क्षयेति ॥ यत्र विष्णौ राजनि सति प्रकृतीनां दुर्गधर्मकर्माध्यक्षसेनापतिपुरोहितम- निदैवज्ञलक्षणानां क्षयलोभविरागहेतवः क्षयो बलाभावः, लोभः सर्वपदार्थेषु स्पृहा व्या- मोहो वा, विरागोऽनुरागाभावः, त एव हेतवो न अभवन् । क्षीणा हि प्रकृतिरकिंचि- करा जायते पति प्रसते लुब्धाहिरपत्यमिव, विरक्ता राज्यसमापनाय जायते इति । एतेन राजनि प्रकृतिस्वाधीनता कथिता । तथा यो विष्णू रिपुं शत्रम् अध्यकृत स्वाधीनी- कृतवान् । केवलम् अस्य विष्णोः परवध्यः शत्रुनार्यः परकीयतां पराधीनतां ययुः, त. त्पतीनां मृतत्वात्कारागृहपतितत्वाद्वा । अन्ये तु केऽपि न पराधीना बभूवुः ॥ वैता- लीयं छन्दः॥ चम्वाजिस्थिरया धरानमननिश्चिन्तस्थितोऽनश्चर- प्रज्ञानस्थिति कर्मजातमवनिस्वामी सुखानां कृते । मत्वामा सचिवैरिहत्यमवसि स्थानं सतामचितौ तौ जैनौ चरणौ प्रजाशमकृतौ रत्यास्तुतेन्द्रस्तुतौ ॥ १४५ ॥ चम्वेति ।। आजिस्थिरया सश्रामस्थिरया चम्वा सेनया धरानमननिश्चिन्तस्थितो मेदिन्या नमनेन प्रवीभवनेन पूर्व निश्चिन्तः पश्चास्थितो भवनिस्वामी भूपतिर्विष्णुः प्रज्ञा- नस्थिति प्रकृष्टज्ञानेन स्थितियंत्र तादृशं कर्मजातं कार्यसमूहम्, अनः प्राणनं सोल्लासं यथा भवति तथा घरश्ननुभवन् सन् सचिवैरमात्यैः अमा सह मत्वा विमृश्य सुखानां कृते करणाय, इहत्यमिहलोकोद्भवम्, अवसि न वासयति तच्छीलम् । संज्ञापूर्वकत्वान्न वृद्धिः । 'वस नेहच्छेदापहरणेषु' । अक्षयं सतां सत्पुरुषाणां स्थानमास्पदम् आश्रयणीयं सतां सत्पुरुषाणाम् अचिती पूजितौ। 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तप्रत्यये तत्कर्तरि 'क्तस्य च वर्तमाने' इति षष्ठी । सतामित्यस्य मध्यमणिन्यायेनोभयत्र संबन्धः । प्रजा- Dogited o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२३५&oldid=234758" इत्यस्माद् प्रतिप्राप्तम्