पृष्ठम्:Dvisandhanam kavya.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः) द्विसंधानम् । २२३ स्तुतवन्तः । तथा चमूः सेना पुरम् भवाष्ट व्याप्तवती । तथा तृणानि आशया आदे. शेन भजना आमर्दन क्रिया न आरुर्गतवन्तः ॥ प्रविश्य पुरमाराध्य चक्रमारुह्य विष्टरम् । परं मित्राणि देशाय नामुश्चत्तदनुस्मृतिम् ॥ १३३ ।। प्रविश्येति ॥ स विष्णुः पुरं प्रविश्य, चक्रम् आराध्य प्रपूज्य, विष्टरमासनमारुत्प, पर केवलं देशाय दे गन्तुं मित्राणि अमुश्चत् प्रेषयामास । तदनुस्मृति मित्रानुस्मरणं न अमुश्चत् त्यक्तवान् ॥ एकभुक्तिमलुब्धि च कुलोपकरणं हितम् । सामाधिकमसाधु च राज्यभारं बभार सः ॥ १३४ ॥ एकेति ॥ स नारायण एकमुक्तिमेकानुभवगोचरमेकस्य भुक्ती रक्षा यस्येत्येकच्छ- त्रम् । अलुब्धिम् अलोभं विमोहहानम् । कुलोपकरणं पृथ्वीलोपकरं वंशोपकारकम् अपि हितं सुखदम् । साना सान्त्वेन अधिकं सया लक्ष्म्या मया झानेन . पश्चगम श्रेण च अधिकम् । अपि । असाधुमचेतोरञ्जकमस्य विष्णोः साधू मनोहरं राज्यभारं यभार पुष्टिं नीतवान् ॥ नानेष्टसहितादोहि स्वयं गौर्वसु भूपतिः । नानेष्ट स हिताऽदो हि स्थानं तीर्थान्तरात्परम् ॥ १३५ ॥ (विषमपादयमकम्) नानेष्टेति ॥ नानेष्टसहिता विविधाभिलषितयुक्ता हिता हितदायिनी गौभूमिः स्वय- मेव वसु द्रव्यम् अदोहि दुग्धा । सोऽसौ भूपतिर्विष्णुरदो द्रव्यं तीर्थान्तरात् धर्मसमवाय- स्थानान्तरात् परमन्यत् स्थानं न अनेष्ट प्रापितवान् ।। खपुरग्रामतायत्तं वखदिक्षानं जनम् । खपुरमा मता यत्तं भूपास्तस्याधिकारिणः ।। १३६ ॥ (विषमपादयमकम्) स्वपुरेति ॥ अप्राः प्रधानास्तस्य विष्णोर्मता इटा अधिकारिणो नियोगिनो भूपा यत् यस्मात्कारणात् तं जनं स्वपुः सुष्ट पान्ति स्म । (अतः) स्वपुरप्रामतायतमात्मनगर- प्रामसमूहाधीनं वसु द्रव्यम् अदिक्षन् दिष्टवन्तः ॥ परस्परमपश्यन्तः सामन्ता दहशुः प्रभुम् । नमन्तस्तं नवोत्थानं भानुं दूरस्थिता इव ॥ १३७ ॥ परस्पेति ॥ दूरस्थिताः सामन्ताः परस्परम् अपश्यन्तः सन्तो नवोत्थानं नवप्राप्त नवो. दयं भानुमिव तं प्रभु नमन्तः सन्तो ददृशुः॥ Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२३३&oldid=234755" इत्यस्माद् प्रतिप्राप्तम्