पृष्ठम्:Dvisandhanam kavya.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। एक इति । एक एकाकी असहायः सर्वास्त्रसंप्राहः सर्वेषामन्त्राणां संप्राहोऽङ्गीकरणं यस्य साहस प्रतिविष्णः चलन क्षोभ गच्छन् दिक्पालानां समाहार इवशिलेय शिला- तुल्यकठोरमुरो वक्षश्चालयश्चचाल ॥ असत्कमशिरोऽश्वीयं हास्तिकं चित्तमोहतः। पपात वञ्चन्न स्मासौ हास्ति कंचित्तमोहतः ॥ २४ ॥ (समपादयमकम्) असेति ॥ चित्तमोहतो वैचित्त्यात् असत्कम् अनष्टीवत्कम् अश्वीयमश्वसमूहः, चित्त. मोहतः भशिरोऽमस्तकं हास्तिकं गजसमूहः पपात । हा कष्टं तमोहतः कोपाविष्टः असौ कंचित् वश्चन् त्यजन् न अस्ति स्म । अंसोत्सेधेन सोत्सेकस्त्रिमूर्ध इव केशवः । पापपाक इवामुष्य प्राभवत्पारिपन्थिकः ॥ २५ ॥ अंसविति ॥ अंसोत्सेधेन स्कन्धोच्छ्रयेण त्रिमूर्धस्त्रिमस्तक इव, सोत्सेकः सगर्वः, केशवः, अस्य प्रतिविष्णोः, पापपाक इव पारिपन्थिकः प्रतिषेधकः प्राभवत् ।। मणेः प्रत्युरसस्यासीत्सुपातीकुर्वता जगत् । रवः सर्वपथीनेन तेजसेवोदयाचलः ॥ २६ ॥ मणेरिति ॥ केशवः प्रत्युरसस्योरसि स्थितस्य मणेः कौस्तुभस्य रवेरिव जगत् भु- वनं सुपातीकुर्वता सुप्रभातीकुर्वता, सर्वपथीनेन सर्वान्पथ आमुक्ता, तेजसा उदया- चल इव आसीत् ॥ वीरारिवैरवारी वै वने रविरिवोर्वराम् । विवोवरैरविवरैरवोवावा विराववान् ॥ २७ ॥ (द्वयक्षरः) वीरेति ॥ वीरारिवैरवारी वीराणामरीणां वैरं वारयति प्रच्छादयति तच्छीलः, अवो- वावा अवोऽपराधलक्षणं तमो वनति सेमनक्ति विनिपि प्रत्यये 'विडनोः' इति आत्वम् । अनीतितमोभनकः, विराववान् गम्भीरध्वनिमानी, केशवः रविरिक सूर्य इव उर्वरां स- वैशस्याख्यभूमिम्, अविवनिषिः, विवोवरैः तेजोमण्डलैः, वत्रे प्रच्छादितवान् ॥ योऽयेयाययियायायं पापापापोपपान्पपौ। नूननूनानिनोऽनेनास्तत्तत्तातोऽतताततिम् ॥ २८ ॥ (एकाक्षरपादः) य इति ॥ अयेयायः अयेयोऽगम्यः अयोयस्य ताइक्,अगम्यगमनः यः इनः स्वामी, आर्य द्रव्योत्पत्तिस्थानम्, इयाय, स अनेनाः पापरहितः, इनः, पापापापोपपान पापमपराधम् अप, _Diguced to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२१२&oldid=234745" इत्यस्माद् प्रतिप्राप्तम्