पृष्ठम्:Dvisandhanam kavya.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ सर्गः] द्विसंधानम् । इत्येति ॥ इन्दुर्वालामुखस्य अन्यद्वागम् अन्यं रागं वीक्ष्य मृगाणां नाभिगन्धं कस्तू- रीम्, आशंसुः श्लाघमान इव मृगस्य नाभेरामोदोऽपि मे मम न इति हेतोः हा कष्टेन अङ्कात्मव्यङ्गम् लाञ्छनस्वरूपकलङ्कम आधात धृतवान् इव ॥ शालिनी ॥ ग्लानि मुक्तामण्डपे तन्तुनालं व्यासीदन्तश्चन्द्रकान्ताः करेण । राज्ञां भोगे सुनुवन्तोऽपरोधं रोर्बु चन्द्रेणाभिनुन्ना इवाभुः ॥ ८१॥ ग्लानिमिति ॥ चन्द्रकान्ताश्चन्द्रकान्तमणयो मुक्तामण्डपे मौक्तिकजनाश्रये करेण एकैककिरणेन तन्तुजालं तन्तुसमुहं व्यासीदन्तो गच्छन्तः सन्तः, अपरोध निरर्गलं यथातथा सुनुवन्तो जलबिन्दून् मुश्चन्तः, चन्द्रेण राज्ञां नरेद्राणां भोगे सुरतव्यापारे ग्लानि श्रमं रोदुम् अभिनुन्नाः सामस्त्येन प्रेरिता इव, आभुः प्रद्योतन्ते स्म ॥ अरण्यवृत्तेरुदवासकर्मणः स पुष्पभाराहरणाच मारुतः । श्रमं विनिन्ये परिरम्य कामिनीस्तपोऽन्तरेणासुलमा हि तादृशः॥८२॥ अरण्येति ॥ मारुतो वातः, अरण्यवृत्तेर्वनवर्तनात्, उदवासकर्मणो जलस्थितिविधा- नात्, पुष्पभाराहरणात् कुसुमनिकरानयनात् , (एतेन मन्दत्व-शीतलत्व-सुरभित्व-लक्ष- गैलिभिर्गुणैः) कामिनीः परिरभ्यालिङ्गय, श्रमं सुरतखेदं विनिन्ये परित्याजितवान् । हि यतः तादृशः कामिन्यः तपस्तपश्चरणम् अन्तरेण विना असुलभा दुर्लभाः ॥ वंशस्थम् ॥ इति विविधरतेन राजलोकैः क्षणमिव न क्षणदा गतापि जज्ञे । शशिनि शशकदर्शनस्य शङ्का खमनसि मानयितुं कृतत्वरेव ॥ ८३॥ इतीति ॥ राजलोकैर्गतापि क्षणदा निशा इत्येवंप्रकारेण विविधरतेन नानासंभोगक्री- व्या क्षणम् इवापि न जज्ञे ज्ञाताशशिनि चन्द्रे शशकदर्शनस्य स्त्रमनसि स्वचित्ते शशां 'शशी हि कलङ्की तदतिसंसर्गादहमपि कलकिनी मा भूवम्' इति वितर्के मानयितुं सं. भावयितुं कृतत्वरेव जज्ञे ज्ञाता ॥ पुष्पितामा ॥ लघु मोद्गमद्दयुमणिरप्युदियादिति कान्तयोविरहकातरयोः । पततोश्च दोहदमिदं समभूद्विविधाथवा विषयिणां हि रुचिः ॥ ८४ ॥ लध्विति ॥ विरहकातरयो विवियोगभीतयोः कान्तयोः स्त्रीपुंसयोः 'घुमणिः सूर्यो लघु क्षिप्रं मा उद्गमत् उदयं प्रापत्' इति, विरहकातरयोर्वर्तमानवियोगभीतयोः पततोः पक्षिणोश्चक्रवाकयोस्तु 'लघु उदियात् उदयं प्राप्यात्' इति इदं दोहदमिच्छा समभूत् ॥ गुक्तमेतत् । अथवा यतः विषयिणां विविधा रुचिः स्यात् ।। प्रमिताक्षरा ॥ आश्लेषमन्तःक्वथनं प्रणाम कामोपदंशानि च चुम्बनानि । दृष्ट्वाङ्गनानामसहा निसोद हासादिवासौ स्फुटिता प्रभासीत् ॥ ८५ ॥ आश्लेषमिति ॥ प्रभा प्रभातम् अनानाम् आश्लेषमालिङ्गनम्, अन्तःक्वथनमन्तःकर- णपाकं यथा भवति तथा प्रणाम प्रणतिम्, कामोपदंशानि कंदर्पव्यअनानि चुम्बनानि दृष्टा Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०५&oldid=234738" इत्यस्माद् प्रतिप्राप्तम्