पृष्ठम्:Dvisandhanam kavya.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। परं न दृष्ट्वाक्रममाणमिन्दुं प्रपूरयामास पयोधिराशाः। लावण्यधामा च्युतमानसीमा रागोऽप्यसंमान्हदये जनस्य ।। ५३ ॥ परमिति ॥ लावण्यधामा क्षाररसाश्रयः शरीरकान्तिविशेषाश्रयो वा । च्युतमानसीमा पयोधिः समुद्रः परं केवलम् आक्रममाणमुदयमानम्, इन्दुम् दृष्ट्वा आशा दिशो न प्रपू- रयामास । किंतु जनस्य हृदये असमान रागोऽपि आशा वाञ्छाः प्रपूरयामास ॥ उपातिः।। श्रवणाञ्जलिनेक्षणेन शुक्या प्रियवाती विधुमासवं पिबन्त्यः । मधुरत्रयसेवयेव जाता हृदि वध्वः समधातवश्चिरेण ॥ ५४॥ श्रवणेति ॥ वध्वः प्रियवार्ता श्रवणाअलिना, विधुम् ईक्षणेन लोचनेन, आसवं मयं शुक्त्या चषकेण पिबन्त्यः सत्यो हृदि हृदये मधुरत्रयसेवया इव समधातवः चिरेण जाता। भोपच्छन्दसिकम् ॥ रवाजिनेष्वाजिभरावशेषाद्विषादवद्वाष्पजलाविलानि । खैणं समुच्छासतरङ्गितानि सीधूनि योधाः समपाययन्त ॥ ५५ ॥ रमेति ॥ योधाः भटाः (प्रयोजककर्तारः) आजिभरावशेषात् विषादयन बैण स्त्रीक- दम्बम् (प्रयोज्यकर्टकम) बाष्पजलाविलानि अश्रुजलमित्राणि, समुच्छासतरङ्गितानि समु- चासेन तरषितानि सीधूनि मद्यानि (कर्माणि) समपाययन्त ॥ उपजातिः ॥ उत्पलस्य शशिनोऽप्यवतारास्सौरभं हरतु कान्तिगुणं च । क खयं क मदनः किल येन प्राप मोहनविधि मधुवारः ॥ १६ ॥ उत्पलेति ॥ मधुवारो मदिरा उत्पलस्य कमलस्य सौरमं परिमलं, शशिनश्चन्द्रस्य कान्तिगणं च. शशिकमलयोः) अवतारात हरतु । स्वयं मधवारः क्व वर्तते मदनःक वर्तते । येन मदनेन मधुवारः मोहनविधि प्राप । किल लोकोक्तौ ॥ स्वागता ॥ इन्दोः प्रियस्यापि कराप्रपातैर्मदस्य चित्तस्य तथाईमावैः । पूर्वापराधस्मृतयो विनेशुर्जन्मापरं जातमिवाबलानाम् ॥ १७ ॥ इन्दोरिति ॥ अबलानां कामिनीनाम् इन्दोश्चन्द्रस्य तथा प्रियस्य वल्लभस्य कराप्रपात किरणपातै खपातैश्च मदस्य तथा चित्तस्य आर्द्रभावैवस्वरूपैः सहृदयभावैश्च । पूर्वा- पराधस्मृतयो विनेशः । तथा च अपरमन्यमिव जन्म जातम् ॥ उपजातिः ॥ प्रतिमितविधुबिम्बसीधुपानादिव वदनं विशदारुणं वधूनाम् । श्रमजललुलितभ्रु कोपशङ्कानतशिरसः किल कामिनश्चकार ॥ १८ ॥ प्रतिमीति ॥ प्रतिमितविधुविम्बसीधुपानात् प्रतिविम्बितचन्द्रविम्बात्सीधुपानात् (य. क्रिमेण) विशदारुणं विशदम् अरुणम्, श्रमजललुलितभु स्वेदजलकलुषितनु वधूनां Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२००&oldid=234737" इत्यस्माद् प्रतिप्राप्तम्