पृष्ठम्:Dvisandhanam kavya.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ सर्गः] द्विसंधानम् । १८९ चन्द्रो वातः शीतकं चन्दनं च क्षोदेष्वासीदुष्णकं कामुकानाम् । निर्द्वन्द्व वा चन्द्रमश्छद्मनाभूदेकच्छत्रं प्राभवं मन्मथस्य ॥ ४७॥ चन्द्र इति ॥ कामुकानां कामिना क्षौदेषु कामजनितपीडासु ससीषु चन्द्रो वातः शीतकं चन्दनं च उष्णकम् आसीत् । वा अथवा चन्द्रमश्छद्मना चन्द्रव्याजेन एक- च्छत्रं निन्द्रं मन्मथस्य प्राभवं प्रभुत्वम् अभूत् ॥ शालिनी ॥ माधवेन मधुना सरेण वा को मयेव महते च तोषितः । इत्यहंयुरवशः स्फुटन्निव स्वल्पतारकगणः शशी बभौ ॥ ४८ ॥ माधवेनेति ॥ मत् मत्त ऋते विना केन माधवेन वसन्तेन मधुना मधेन स्मरेण कंद- पेण मया इव कस्तोषितः । अपि तु न । इत्येवं प्रकारेण अहंयुगर्विष्ठोऽवशः स्वाधीनः शशी स्फुटनिव विकसन्निव स्वल्पतारकगणः सन् बभौ ॥ रथोद्धता ॥ न विधुः सरशस्त्रशाणबन्धः स्वयमेष स्फुरिताश्च ता न ताराः। मदनास्वनिशानवतिशल्कप्रचयोऽसाविति मानिभिश्चकम्पे ॥ ४९॥ नैति ॥ मानिभिः कामुकैः ‘एष विधुन, किंतु स्वयं स्मरशस्त्रशाणपन्धः स्मरस्य कंद- र्पस्य शस्त्राणां शापबन्धः, ता इमाश्च स्फुरिताः तारा न किंतु असौ मदनामनिशानव- हिशल्कनिचयः मदनास्त्राणी निशानेन वहिशल्कानां प्रचयोऽस्ति' इति हेतोखकम्पै ॥ औपच्छन्दसिकं वृत्तम् ॥ आत्मपादशरणं कुमुदौघं भानुतापितमवेत्य सवैरम् । हन्तुमभ्यधिकमिच्छरिवेन्दुश्चक्रवाकमतपत्कमलं च ॥ ५० ॥ आत्मेति ॥ इन्दुश्चन्द्रः आत्मपावशरण स्वशरणागतं कुमुदौ, कैरवनिकर भानता. पितम् अवेत्य सवैरम् अभ्यधिकं हन्तुम् इच्छुरिव कमलं चक्रवाकं च अतपत् पीडि- तवान् ॥ स्वागतावृत्तम् ॥ क्षीरधिप्लवकृतोद्गमैरिव प्लावितेंऽशुभिरतिग्मदीधितिः । व्योम्नि मज्जनभयेन शङ्कितः संचरन्निव गतेन लक्षितः ॥ ११ ॥ क्षीरेति ॥ अतिग्मदीधितिश्चन्द्रः क्षीरधिप्लवकृतोद्गमैः समुद्रपूरविहितोत्पत्तिभिरंशुभिः किरणः प्लाविते प्रलोडिते, व्योम्नि गगने मज्जनभयेन शकित इव गतेन संचरन् लक्षितः (जनैः) ॥ रथोद्धता ॥ भोगसागरपरिक्रमचौरानरागिणो जलपथे कृतकृत्यान् । अध्यरोहदिव जेतुमुदत्रश्चन्द्रमण्डलतरण्डमनङ्गः ॥ १२ ॥ भोगेति ॥ अनङ्गः कंदर्पो भोगसागरपरिक्रमचौरान भोगसमुद्रमार्गतस्करान् , जलपथे जलमार्गे जहमार्गे कृतकृत्यान् रागिणः कामुकान् जेतुम् उदन उत्खातशस्त्रः सन् चन्द्र- मण्डलतरण्डं चन्द्रमण्डलमेव तरण्डं लघनौकाविशेषम् अध्यरोहत् इव । स्वागता॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९९&oldid=234736" इत्यस्माद् प्रतिप्राप्तम्