पृष्ठम्:Dvisandhanam kavya.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। परिमोहयमाणमाशयं व्यसनाम्भोधिमिवोत्तरंस्तमः । सुखरोचिरतः सलक्ष्मणः क्षणमुल्लाघ इवोदतिष्ठत ॥ ४२ ॥ परीति ॥ सुखरो दृढप्रहारी, स लक्ष्मणः सौमित्रिः आशयं चेतः परिमोहयमाणं व्यसनाम्भोधि व्यसनसागरमिव तमः अन्धकारमज्ञानम् उत्तरन् सन् अचिरतः शीघ्रमेव क्षणं मुहूर्तात् 'उल्लाघो निरामय इव उदतिष्ठत् उत्तिष्ठते स्म ॥ भारतीय-अतोऽनन्त- रम् सलक्ष्मणः सलाञ्छनः सुवरोचिश्चन्द्रः, तमोऽन्धकारम् ॥ निजपूर्वया रुचिरपाण्डुरुचा परमाशयौषधिपतिवरया । तमवाप्य कान्तमधिकं रुरुचे न महविसंगतिषु कस्य रुचिः ॥ १३ ॥ निजेति ॥ निजपूर्वया निजपूर्वोपार्जितया रुचिरपाण्डुरुचा मनोहरविषदकान्त्या पर- माशयोत्कृष्टवाञ्छ्यौषधिपतिंवरया विशल्याख्योषधिरूपकन्यया तं कान्तम् अवाप्य प्राप्य अधिकं रुरुचे । महस्विसंगतिषु कस्य न रुचिः ॥ भारतीये-वरयोत्कृष्टया आशया दिशया परमुत्कृष्टम् , ओषधिपति चन्द्रम् ॥ प्रमिताक्षरा ॥ स हरिन्नवोदयमुदीक्ष्य जनश्चिरचन्द्रहासभयविह्वलितः। निजकृत्यनिर्वहणभारमितः समुदश्वसीनिशि कवोष्णमसौ ॥ ४४ ॥ स इति ॥ चिरचन्द्रहासभयविह्वलः चिरविरमाचक्षाणश्चन्द्रहासः खङ्गो यस्य तस्मा- द्रावणाद्भयेन विह्वलः, असौ स जनो नवोदयं नवोत्थितं हरिं लक्ष्मणम् उदीक्ष्य प्रेक्ष्य निजकृत्यनिर्वहणभारमात्मकार्यनिर्वाहभारम्, इतो गतः, निशि कवोष्णं यथा तथा समु- दश्वसीत् ॥ भारतीये-चिरचन्द्रहासभयविह्वलश्विरमाचक्षाणचन्द्रज्योत्साभयविह्वलो ह- रिनवोदयं हरित्सु दिक्षु नव उदयो यस्य तं प्रकरणाचन्द्रम् ॥ दारुण्यमात्मन्यनुशय्य तीव्र स्खतापतप्तां दयया धरित्रीम् । निर्वृत्य निर्वापयितुं हिमांशुव्याजेन शीतोऽभ्युदयादिवाकैः ॥ ४५ ॥ दारुण्येति ॥ अस्तीत्रमसम्मं दारुण्यमात्मनि अनुशय्य पश्चात्तापविषयीकृत्य, स्वताप- तप्ता धरित्री दयया निर्वृत्य व्याधुट्य निर्वापयितुं सुखयितुं शीतीकर्तुं हिमांशुव्याजेन च. न्द्रस्वरूपेण शीतः शीतलः अभ्युदयादभ्युद्गतवान् इव ॥ उपजातिः॥ शनैः समारुह्य नमोऽनुरागं जहौ शशी लोकहितोद्यतोऽपि । प्रायेण सर्वोऽप्यधिरूढसंपञ्चपोढपूर्वस्थितिरीडगेव ॥ ४६ ॥ शनैरिति ॥ लोकहितोद्यतोऽपि शशी शनैर्नभो गगनं समारुख अनुरागं प्रीति रक्तता च जहौ । प्रायेण सर्वोऽप्यधिरूढसंपत् सन् ईदृक् चन्द्र इव व्यपोढपूर्वस्थितिर्मुक्तपूर्व- स्थितिर्भवति । Digitized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१९८&oldid=234735" इत्यस्माद् प्रतिप्राप्तम्