पृष्ठम्:Dvisandhanam kavya.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । वाजीभविपिनेऽयेये जीनारावे रजोमये । भरादपेतै राजोने विवेपेऽरिशतैरपि ॥ ११३॥ (अर्घभ्रमः) वाजीति ॥ अयेये अगम्ये जीनारावे क्षीणशब्दे रजोमये धूलिप्रचुरे राजोने शत्रुहीने वाजीमविपिने तुरगगजरणे भराट् रणतत्परतायाः अपेतैरपगतैररिशतैरपि विवेपे कम्पितम् ॥ न नाम प्रतिसामन्तं त्रेसुः के संघवृत्तयः । ननाम प्रतिसामं तं प्रकृत्या प्रातिकूलिकः ॥ ११४॥ (विषमपादयमकम्) नेति ॥ के संघवृत्तयः सामवायिकाः क्षत्रियाः, प्रतिसामन्तं सामन्तं सामन्तं प्रति, नाम अहोनसनस्ताः । अपितु सर्वेऽपि । अतएव प्रातिकृलिकः प्रतिकूलं वर्तमानस्तं नारा- यणं प्रकृत्या स्वभावतः प्रतिसामं यथोपशमं यथा स्यात्तथा ननाम नमस्कृतवान् ॥ कमन्यं यः समुन्न तमकरोत्करदा मतः। गम्भीरां वार्धिविततिमकरोत्करदामतः ॥ ११५ ॥ (समपादयमकम्) कमिति ॥ यः समुत् सहर्षः करदा सिद्धायदात्रा मत इष्टः सन् गम्भीरा वाधिवितति समुद्रविस्तारकरदां सिद्धायदात्रीम् अकरोत् । अतः कम् अन्य तं करदं न अकरोत् । अपि तु सर्वम् । त्रस्तेऽराववरास्तेऽत्र केशवेन नवेऽशके । तेपे चारु रुचापेते नाधुते न नतेऽधुना ॥ ११ ॥ (गतप्रत्यागतचरणः) त्रस्त इति ॥ अधुना संप्रति केशवेन लक्ष्मणेन विष्णुना प्रस्ते भीतेऽवरास्ते आद्वि. गोर्वरेण प्रधानेन ज्येष्ठेन रामेणास्ते क्षिप्ते नवे नूतनेऽशकेऽशक्ते रुचा कान्त्यापेते त्यक्त आधुते समन्ततः कम्पिते नते नत्रेऽत्र अरौ चारु यथा स्यात्तथा न न तेपे । तेप एव ॥ समजन्यायतोऽन्यान्गोसमजन्यायतोऽवयन् । समजन्यत हीनारे समजन्यतयायतिः ॥ ११७ ॥ समजेति ॥ विष्णुर्गोसमजन्यायतो गौसमूहन्यायेनायत आगच्छतोऽन्याशनवयज् जानन समजनि संजातः । समजन्यतया समानरणतया अरेः शत्रोरायतिः फलमुत्तरं हीना क्षीणा समजन्यत कृता । . Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२९&oldid=234731" इत्यस्माद् प्रतिप्राप्तम्