पृष्ठम्:Dvisandhanam kavya.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ काव्यमाला। कौरवी कुत्सितरवसंवन्धिनीम् तस्मिमाथे मृते कथं भवद्भिर्जीवनीयम्' इति लोकापवाद- रूपां गतिम् उच्छेत्तुम् योधनपाटवं युद्धपटुत्वम् अदुर्दत्तवन्तः । स सख्येन मित्रत्वेन स्वां युद्धजितां भुवं तेभ्यो विभीषणादिभ्यो ददौ दत्तवान् । भारतीये-ये पाण्डवाः कौरवी कुरूणामिमां गतिम् अदुर्योधनपाटवं न विद्यते दुर्योधनस्य राज्ञः पाटवं पटुत्वं जीवनं यत्र तादृग् यथा स्यात्तथा उच्छेत्तुं विक्रान्ताः । तेभ्यः पाण्डवेभ्यः स विष्णुः स्वां स्वकीयां भुवम् ददौ ॥ सरक्षोवरजो राज्यं धर्मपुत्रोऽथ फल्गुनः । भीमोहतापरुद्धारि लब्ध्वासीद्वैरतः प्रभोः ॥ १०९ ॥ सरेति ॥ अथ स्वभूमिदानानन्तरं स रक्षोवरजो रावणानुजो विभीषणः फल्गुनः निःसाराद् वैरतो वैराद् भीमोहतापरुद्धार भिया मोहेन सापेन च रुद्धा अरयो यस्मा- तादृशं राज्यं लब्ध्वा प्रभो रामस्य धर्मपुत्रः प्रतिपनपुत्रः आसीत् ॥ भारतीये-धर्म- पुत्रो युधिष्ठिरः, भीमस्तदनुजः, फल्गुनोऽर्जुनः, अवरजः अवगतं रजो यस्येत्येनोमल- रहितं हवापरुद्धारि हता अपरुद्धाश्व अरयो यत्र तादृशं राज्यं लब्ध्वा प्रभोः कृष्णस्य रतः प्रीतः सरक्षः रक्षासहितः आसीत् ॥ ततो विधातुमन्येषां निश्चक्रामवसुंधराम् । आत्मीयां रक्षितुं चक्री निश्चक्राम वसुंधराम् ॥ ११० ॥ (समपादयमकम्) तत इति ॥ ततो विभीषणाय पाण्डवेभ्यश्च राज्यसमर्पणानन्तरं चक्री नारायणोऽन्येषां शत्रूणां धरां पृथ्वीं निश्चक्रां निर्घाटकाम् अवसुं निद्रव्यां विधातुं कर्तुम् आत्मीयां स्वकीयां वसुंधरा पृथ्वी रक्षितुं निश्चकाम निर्गतवान् ।। हरितो हरितो बिम्युराभ्यो राम्यो विनारयः । तेऽभ्यस्तेभ्यः खदेशेभ्यः केवलं केऽवलन्न वा ॥ १११॥ हरित इति ॥ हरितो दिशो हरितो नारायणाद्, विभ्युः । ते के । अभ्यो निर्भया येऽरय आभ्यो दिग्भ्यः तेभ्यः प्रख्यातेभ्यः स्वदेशेभ्यो राभ्यो द्रव्येभ्यो विना केवलं परं न अवलन् ॥ आशिश्रियन्नदीनाथो गङ्गा सिन्धुश्च केशवम् । आशि श्रियं न दीनाथो दिग्भीता तेन बिभ्रता ॥ ११२ ॥ (विषमपादयमकम्) भाशिनीति ॥ नदीनाथो माधवो देवो वरतन्तुदेवः प्रह्लादमदेवश्च गा सिन्धुश्च केशवं नारायणम् आशिश्रियत् सेवते स्म । अथो अनन्तरं श्रियं विनता तेन नारायणेन दीना भीता दिक् (किं)न आशि। अपि तु व्याप्तैच ।। Cogncode, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२८&oldid=234730" इत्यस्माद् प्रतिप्राप्तम्