पृष्ठम्:Dvisandhanam kavya.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तेनेति ॥ स नारायणस्तेन वैरिमा आत्मशिरसा निजमस्तकेन कृत्वा अर्जिता सा श्रीहिःशिरः शिरसो बहिः कथं स्यादितीव हेतोरन्याङ्गमुत्सृज्य अतो रिपुत उत्तमा शिरोऽमहीत् ।। ग्रीवा हते क्षरत्तत्री वैरराजे समन्ततः । धुनी सधातुस्यन्देव वै रराजे समं ततः ॥ ९८ ॥ (समपादयमकम्) प्रीवेति । ततः शिरश्छेदानन्तरं वैरराजे प्रतिविष्णौ हते सति क्षरतत्री नवनाडिका प्रीवा सधातुस्यन्दा गैरिकप्रस्रवणा धुनी नदी व समं गुगपत्, समन्ततः सामस्त्येन वै निश्चये रराजे शोभिता ॥ इत्यघानि द्विषन्देवदिव्यघानिषतानकाः। जित्वाधानि स्थितोऽनीदमोवानि स नारदः॥ ९९ ॥ इत्यधेति । इत्येवंप्रकारेण विष्णुना] द्विषन् प्रतिविष्णुरघानि हतः । तथा देवैदिवि मानकाः पटहा अधानिषत आहताः । तथा अमोघानि निष्फलानि अघानि पापानि जित्वा स्थितः स नारदो ब्रह्मपुत्रः अनात् । नृत्यं कृतवान् ॥ सत्रा संभ्रमसंपातैः सत्रासं भ्रमरैश्चिता । • ता माल्यमालिकाः पेतुस्तामाल्य इव नाकतः ॥ १० ॥ सत्रेति । चिताः पुष्टास्ता माल्यमालिकाः पुष्पमालाः । तामाल्यः तमालकुसुमनिर्मिता इव। सत्रासं समयं यथा स्यात्तथा संभ्रमसंपातैः संभ्रमण संपातो येषां तैभ्रमरैः सत्रा सार्ध नाकतः स्वर्गत: पेतुः ॥ अक्षेतामुभौ सेन्ट्रैविशेषेण जगद्विषत् । पौरुषं पुरुषायत्तं मरणं हि विधेर्वशम् ॥ १.१॥ अक्षेतामिति ॥ सेन्ट्रैरिन्द्रसहितविशेषेणोभी विष्णुप्रतिविष्णू अदृक्षतां दृष्टौ । जगत् द्विषत् पौरुषं पुरुषायत्तं वर्तते । मरणं विधेर्वशम् अस्ति । हि स्फुटम् ।। शुद्धां शुद्धान्तवसति संगतः कर्मसङ्गतः । मुख्योद्यावो ददे मुख्यो बाष्पेण व्यञ्जलं जलम् ॥ १०२ ॥ शुद्धामिति ॥ कर्मसङ्गतः क्रियासंबन्धात्, शुद्धां पवित्रां शुद्धान्तवसतिम् अन्तःपुर- मन्दिर संगतः प्राप्तो मुख्यः प्रधानो मुख्योद्यावो मुख्यानां प्रधानाङ्गनानामुद्यावः समूहो बाणाश्रुणा व्यञ्जलम्अमलित्रयमितम् । 'द्वित्रिभ्यामअले' इति टच । जलं ददे दत्तवान् । पुरो रिपोरपारोऽपि तत्तत्तापातपोऽतपत् । विवेशेवावशोऽवेशो नृमानं मानिनीमनः ॥ १०३ ॥ (ब्यक्षरपाद:) Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२६&oldid=234728" इत्यस्माद् प्रतिप्राप्तम्