पृष्ठम्:Dvisandhanam kavya.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । इत्याकर्ण्य तमुत्साहं साहंकारं सुरावली । सुरावलीला साशंसं साशं संप्रशशंस तम् ॥ ९२ ॥ (शृङ्खलायमकः) इत्येति ॥ सुरावलीला सुरावा मधुरध्वनिलीला यस्याः तादृक् सुरावली देववन्दम् इति पूर्वोक्तं तम् उत्साहम् आकर्ण्य, साइंकारं सगर्व साशंसं सप्रशंसं साशं सवाञ्छं तं लोक- प्रतीतं प्रतिविष्णुं संप्रशशंस प्रशंसां कृतवती ॥ शौर्य हीश्च कुलीनस्य स्खे नुः समार्गलाञ्छनम् । वस्थितीवोक्तये भेर्यः खेनुः सद्मार्गलाञ्छनम् ॥ ९३ ॥ (समपादयमकम्) शौर्यमिति ॥ भेयः कुलीनस्य नुः शौर्य ह्रीश्च स्वे आत्मीये स्याताम् । तथा यसु समा- गेलाञ्छनं सतां सत्पुरुषाणां मार्गस्य लाञ्छनं चिह्नमेव वसु अस्ति इति उक्तये इव स- मार्गलाञ्छनं मन्दिरार्गलोलामं यथा स्यात्तथा स्वेनुर्ध्वनितवत्यः ॥ गाथका गाथकावन्धैः सज्जगुः स्थाम सज्जगुः । राशिराशिश्रवन्नाम वन्दिनां गुणवन्दिनाम् ॥ ९४ ॥ गाथका इति ॥ गायका मङ्गलपाठकाः सत् समीचीनं स्थाम बलं गाथकावन्धैर्जगु. गर्गायन्ति स्म । तथा—सजगुः सबा गौर्याणी यस्य चतुरवचनो गुणवन्दिना गुणस्तवनशी- लानां वन्दिना राशिः समूहो नाम अभिधानम् आशिश्रवत् श्रावितवान् ॥ देवैर्विमानशालायामाश्रितैर्मत्तवारणीम् । रणरङ्गस्तयोस्तत्र पूर्वरङ्ग इवाभवत् ॥ ९५ ॥ देवैरिति ॥ तत्र युद्धे तयोविष्णुप्रतिविष्ण्वो रणरङ्गः विमानशालायां मत्तवारणी मत्ता- लम्बनम् माश्रितैर्देवैः । षष्ठयां प्राप्तायां तृतीया । देवानां पूर्वरङ्ग इव अभवत् संजातः ॥ नामोचितेन चक्रान्तं दोष्णावामुचद्धरिः । नामोचि तेन च क्रान्तं धैर्य जगति वैरिणा ॥ ९ ॥ (विषमपादयमकम्) नामोचितेनेति ॥ हरि मोचितेन कीर्तनयोग्येन दोषणा बाहुना चक्रान्तं चक्रस्वरूप शस्त्रम् आवर्त्य भ्रमयित्वा, अमुचत् त्यक्तवान् । तेन वैरिणा तु जगति भुवने क्रान्तं प्रसतं धैर्य नामोचि त्यक्तम् ॥ तेनार्जितात्मशिरसा श्रीः कथं सा बहिःशिरः । इतीवोत्सृज्य सोऽन्यानमुत्तमाङ्गमतोऽग्रहीत् ॥ ९७ ॥ Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२५&oldid=234727" इत्यस्माद् प्रतिप्राप्तम्