पृष्ठम्:Dvisandhanam kavya.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। प्रत्येति ॥ सुराः कोमलध्वनिः सुराजा शोभनो राजा।'न पूजनात्' इति समासान्ता- भावः। स शात्रवः शत्रः । नामकीर्तिः त्रैलोक्यकण्टकेति जरासंधेति नानैव कीर्तिः इति जानन् कथाक्षेपेण आनन् श्वसन् सन् , प्रत्याहतं तं नारायणं प्रत्याह स्म प्रत्युत्तरगो- चरीकृतवान् ॥ . रजश्छलेन दुर्दानं सुदानाः कृपयासवः । दृष्टोऽपन्यास्त्वया मार्ग दावाग्निर्नापि लञ्जते ॥ ७ ॥ रजेति ॥ छलेन दुर्दानं रजः स्यात् तथा असवः प्राणाः कृपया सुदानाः सुखदेयाः स्युः । त्वया दृष्टोऽपन्थाः मार्ग न लबते । दावामिरपि न लाते ॥ त्रासो विरूपरेखा वा छायाया यदि वा हतिः। मानिनः शठ मन्यन्ते तृणायापि न नायकम् ॥ ८८॥ त्रासविति ॥ हे शठ, मानिनोऽभिमानवन्तो मूल्यज्ञानिनो रत्नपरीक्षकाः । नायक स्वामिन, प्रधानरत्नं तृणायापि तृणतुलनामपि । 'मन्यकर्मणि' इति चतुर्थी । न मन्यन्ते । यदि तत्र त्रास उद्वेगो भगः विरूपरेखा रौद्रत्वम् असौन्दर्यम् छायाया लोकव्यवहारस्य कान्तिविशेषस्य इति शः स्यात् ॥ शिश्रीषतोऽन्यमीसायै पारावारीणमात्मनः । यशः संकुचति व्याप्तं किंवानेनार्जयिष्यते ॥ ८९॥ शिश्रीति ॥ ईसायै वचिंतुमिच्छायै अन्यं परं शिश्रीषतः सेवितुमिच्छत आत्मनः पु. रुषस्य पारावारीणं पारावारमलं गामि व्याप्तं . प्रस्तं यशः संकुचति संकोचं प्राप्नोति । अनेन परसेवनेन किम् अर्जयिष्यते । न किमपि ।। विधुरास्ते त्रपापेतः पराश्रये च ये स्थिताः । विधुरास्ते पापेतः पूष्णो नास्योदये रविः ॥९॥ (विषमपादयमकम् ) विध्विति ॥ये पराश्रये स्थितास्ते विधुरा भीतास्वपापेतः त्रपामपयन्ति । किम् । निर्लजाः स्युः। यतः-विधुश्चन्द्रः पूष्णः सूर्यस्योदये प्रपातोलजया त्यक्तः, सन् आस्ते । भस्य चन्द्रस्योदये रविः सूर्यवपापेतो नास्ते ॥ मा ज्ञाय्यसि निरस्रोऽहं हस्तेनास्त्रं हि मुच्यते । ततस्तलप्रहारेण मुश्चास्त्रं क्राथयामि ते ॥ ९१ ।। मा झायीति ॥ हे विष्णो, अहं निरस्त्रोऽस्त्ररहितोऽस्मि इति त्वया मा झायि मा बोधि । हि यतः इस्तेनास्त्रं मुच्यते । ततः कारणात् । अत्रं मुश, तलप्रहारेण ते तव । 'जासिनिप्रहणनाटकाथ-'इति षष्ठी । क्राथयामि त्वां हन्मि ॥ __Diginted by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२४&oldid=234726" इत्यस्माद् प्रतिप्राप्तम्