पृष्ठम्:Dvisandhanam kavya.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । आज्ञासमापनीयेन विष्णुनेवास्त्रमैक्ष्यत | तेनैव तद्यशः केन निःशेष समभुज्यत ॥ ७६ ॥ आज्ञेति ।आज्ञासमापनीयेन प्रतिज्ञानिर्वाहकेण, विष्णुनैव अस्त्रं चक्रमैक्ष्यतावलो- कितम् । तथा तेनैव विष्णुनैव तद् यश ऐक्ष्यत । निःशेष सकलं केन समभुज्यत भुक्तम् । न केनापि॥ न तद्भुजतटं गच्छन्न रराज स्यदारुणम् । अर्कोऽञ्जनाद्रिपर्वेव नरराजस्य दारुणम् ॥ ७७ ॥ (समपादयमकम्) नेति ॥ स्यदारुणं वेगलोहितं तच्चक्रं नरराजस्य दारुणं भुजतटं गच्छत् सत् । अज- नाविपर्व अजनगिरितदं गच्छन्नः सूर्य इव । न न रराज रराजैव ॥ मियेदमिति नैकोऽपि जज्ञे तत्केशवः परम् । यस्यांसमगमच्चक्रं वोढा भारं हि बोधति ॥ ८ ॥ भियेदमिति ॥ एकोऽपि भिया भयेन इदम् इति न जज्ञे ज्ञातवान् । परं केवलं यस्य अंसं प्रति चक्रम् अगमत् स केशवस्तश्चक्रं जशे । युक्तमेतत् । हि यतः घोडा वाहको, भारं बोधति जानाति॥ उत्तमोऽपरतो दुःखमुत्तमोऽभ्युदयोऽन्यतः । आसीदतिक्रमं तस्मिन्नासीदति रवाविव ॥ ७९ ॥ (अर्धपादादियमकः) उत्तेति ॥ अपरतः पृष्ठतः, उत्तम उद्गतान्धकारं दुःखम् , अन्यतोऽग्रत उत्सम उत्कृष्टोऽभ्युदयः, तस्मिन् चक्रे । रवौ इव। अतिक्रमम् आसीदति आगच्छति सति, आसीत् ॥ . चक्र दुःसहमालोक्य चक्रन्दुः सहसारयः। मृतोत्पन्नेव साश्वा साश्वासा सा वैष्णवी चमूः ॥ ८० ॥ चक्रमिति ॥ अरयो दुःसहं चक्रम् आलोक्य सहसा शीघ्र चक्रन्दुराकन्दितवन्तः । तथा-साश्वा सतुरगा साश्वासा आश्वाससहिता सा वैष्णवी चमूभृतोत्पना पूर्व मृता पश्चादुत्पन्नेवासीत् ॥ हस्तच्युते गते क्वापि कीदृशोऽप्यनुशेरते । साम्राज्यमूलेऽतीतेऽपि तादवस्थ्यं ययौ रिपुः ॥ ८१ ॥ हस्तेति ॥ कीदृशोऽपि पुरुषा वस्तुनि हस्तच्युते करपतिते क्वापि गते सति अनुशेरते Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२२&oldid=234724" इत्यस्माद् प्रतिप्राप्तम्