पृष्ठम्:Dvisandhanam kavya.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । दुरेति ॥ दूरक्षेशविभीमो दूरक्षेण दुःखेन रक्षितुमशक्येन ईन रावणेन विभीमो भ- यानको विभीषणो राक्षसः इत्येवंप्रकारेण, वेपथु कम्पम्, ईयुषि गतवति, अस्मिन् युद्धे रणे त्रस्तं परमुत्कृष्टं सैन्यं विजगाहे विलोडितवान् ॥ भारतीये-विभीषणो भयामको भीमो द्वितीयपाण्डवो दूरक्षे दुष्टरक्षे युद्धे शवि शववत् सैन्यम् ॥ अजित्वान्यं श्रिया विष्णोररिरंसोरसी सरत् । संमुखं चक्रमुद्दयोतैररिरंसोरसीसरत् ॥७२॥ (समपादयमकम्) अजित्लेति ॥ अरिः प्रतिविष्णुरन्यम् अजित्वा श्रिया लक्ष्म्या सह अरिरंसोः क्रीडितु- मनिच्छोविष्णोरंसोरसी स्कन्धवक्षसी उद्दयोतैः प्रकाशैः संमुखं यथा भवति तथा सरत् गच्छत्, चक्रम् , असीसरत् प्रेरितवान् । स प्रभाविक्रमं भूमेः कार्मुको नमयन्परान् । वामोऽथ चक्रं वक्रोऽरिः [प्रमुमोच न विक्रम् ॥ ७३ ॥ (गूढचतुर्थपादः) • स इति ॥ अथ भूमेः कामुकः कामी वामः प्रतिकूल: वक्रः कुटिलः सोऽरिः परान् नमयन् सन् प्रभाविक्रम प्रभावी क्रमो यस्य तत् चक्रं प्रमुमोच त्यक्तवान् । विक्रम पराक्रमं न प्रमुमोच ।। अनुलोमगत्या द्वितीयाक्षरैः, विलोमगत्या चतुर्याक्षरैः, पञ्चमाक्षरैः पुनरनुलोमगत्या चतुर्थपादोद्धारः॥ सस्नेरुखैः सुसंसले सीरिसीरासिरासरत् । सा ररास रसा सारा सुराः सत्रंसिरेऽसुराः ॥ ७ ॥ (अक्षरः) - सरिति ॥ सलेः सूर्यस्य उौः किरणैः सुसंसने संकुचितम् । तथा च सीरिसी- रासि: सीरी बलभद्रश्चासौ सीरासिः सीरो हलमेव असिर्यस्य स च आसरत् विजृम्भते स्म । तथा सारा प्रधाना सा रसा पृथ्वी ररास ध्वनितवती । तथा सुरा देवा असुरा दानवाः सत्रंसिरे पतिताः ।। अरथाश्वं हरियुद्धमध्यवासादसिन्धुरम् । वीक्ष्यास्त्रं विदधत्सैन्यमध्यवासादसिं धुरम् ॥ ७९ ॥ (समपादयमकम्) अरेति ॥ हरिरध्यवासात निश्चयात् युद्धं रणं विदधत् कुर्वन् अस्थाश्वं रथवाजिरहि. तम् असिन्धुरं गजरहितं सैन्यं विदधत् अत्रं वीक्ष्य, धुरं प्रधानम् असिं खहम् अध्य- वासात् गृहीतवान् । Digitzed to, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२१&oldid=234723" इत्यस्माद् प्रतिप्राप्तम्