पृष्ठम्:Dvisandhanam kavya.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । २०७ नागेति ॥ नागायत्तं सर्पव्याप्तं नमो गगनं सुजित्याभिः शोभनहलीमिर्दारितं विदीर्णम् इव अभूत् । जनः आभिर्मायाभिः सुजित्य अनायासेन शत्रुजित्वा उदितं ते प्रतिविष्णुं नन अगायत् । अगायदेव ॥ दददेऽदोऽदरिद्रोऽरिरदिरौद्रोऽरुरादरी । दूरादरं दरं दद्रुरार्दा दगुर्दरीदरी ॥ ५१ ॥ (द्यक्षरः) दददे इति । अदरिद्रः पुण्यवान्, अद्रिौद्रः पर्वतवद्भयानक आदरी आदरवान् दरी भयानकोऽरिरुदः एतत् अरुणं दददे दत्तवान् । आर्द्राः स्निग्धचित्ता अरं शीघ्र दरं मयं दगुर्गताः । तथा च दूराहरीः कन्दरान् ददुर्गतवन्तः ॥ प्रौर्णवीदथ सौपर्णः कीर्णपर्णः फणाभृतः । कृष्णोदीर्णोऽर्णवस्याग्निस्तरङ्गानिव पूर्णतः ॥ १२ ॥ प्रौर्णेति ॥ अथारिप्रौढ्यनन्तरं कृष्णोदीर्णो नारायणप्रेरितः सौपर्णो गरुडः कीर्णपर्णः प्रसारितपत्रः सन् घूर्णतो भ्रमतः फणाभृतः सर्पान् । अर्णवस्य समुद्रस्य अभिस्वानल- स्तरङ्गानिव । पौर्णवीद प्रच्छादितवान् ॥ अरुणत्फाणिनगणानुच्चचार समुद्धृतान् । सोऽन्त्राणीव रुषा कर्षन्नुञ्चचारसमुद्धृतान् ॥ १३ ॥ (समपादयमकम्) अरुणेति ॥ समुत् सहर्षः स सौपर्णः फाणिनगणान् सीयसमूहान्, अरुणद रुद्धवान्। ततश्च उच्चचारसमुद्धृतान् उच्चैर्गमनसमुत्क्षिप्तान, धृतान् अन्त्राणि इव रुषा कर्षन् सन् . उच्चचार अर्व मक्षितवान् । गरो गिरिगुरुौरैररागैरुरगैररम् । मुमुचेऽमी चमूमुच्चाममाचाममुचोऽमुचन् ॥ १४ ॥ (क्षरार्ध) गर इति ॥ गौरैः शुबैररागैरनुरागरहितैरुरगैः सगिरिगुरुः पर्वतगरिष्ठो गरो ग- रलं मुमुचे मुक्तः । ममी उरगा आचाममुथो भक्षणमुक्ताः सन्तोऽमा युगपटू उच्चो च- मूम् अमुचन् मुक्तवन्तः ।। . आधुनानः करं भानुरापतन्मण्डलस्थितिम् । प्रयोगं गारुडं प्राप्य नागदष्टोऽश्वसीदिव ॥ ५५ ॥ आधुनेति ॥ भानुः सूर्यः । नागदष्टः सर्पदष्टः पुरुष इव गारुई गरुकृतं प्रयोग Dogices o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२१७&oldid=234719" इत्यस्माद् प्रतिप्राप्तम्