पृष्ठम्:Dvisandhanam kavya.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ काव्यमाला। रागं नेत्रे नैव चित्तं भुखं च स्त्रीणां पानान्माननिलं जगाहे । द्वेधैकोऽभूहद्धपानोऽपि पाण्डः कान्तास्योष्मखेदभावादिवौष्ठः ॥७॥ रागमिति ॥ (केवल) स्त्रीणां कामिनीना नेत्रे एव रागं न जगाहाते । किंतु चित्तं मुखं च पानात् मानजिहां रागं जगाहे । बद्धपानः कान्तास्योष्मस्वेदभावात् वल्लभवदनोच्छवास- धर्मत्वादिव पाण्डुः शुक्ल एकोऽपि ओष्ठो द्वैधा अभूत् । अधरस्वरूपापेक्षया रक्त पानव- शात्पाण्डुरिति भावः ॥ देहेषु भोगाय विभक्तिमागतैः प्राणेषु चैक्यं निजमेव कामिभिः। न क्वापि दृष्टा इव मानवृत्तयस्तत्पूर्वदृष्टा इव वल्लभाः परम् ॥ ७६ ।। देहेष्विति ॥ मानवृत्तयः देहेषु भोगाय स्रक्चन्दनानुशीलनाय विभक्तिं भेदम् , प्राणेषु निजमात्माधीनम् ऐक्यमेकीभाव समरसीभावमा. आगतैः कामिभिः क्वापि दृष्टा इव पर केवलं न अभवन् । किं तु वल्लभाः कामिन्यः तत्पूर्वदृष्टा मानवृत्तिपूर्वदृष्टा इव अभूवन् । इन्द्रवंशा॥ असंमनन्ती व्यवधानमक्ष्णोरीचिक्षिषुः पक्ष्म कुचद्वयं च । चित्तव्यवायं परिरिप्सुरीशं प्राणप्रिया कान्तरिता प्रियेण ॥ ७७ ॥ असंमेति ॥ ईशं पतिमीचिक्षिषुरवलोकयितुमिच्छन्ती सती अक्षणोय॑वधानं पक्ष्म नेत्रपत्ररोम असंमनन्ती अनिच्छन्ती । परिरिप्सुरालिङ्गितुमिच्छन्ती सती चित्तव्यवायं चि- त्तस्य मनसो व्यवायो व्यवधान यस्मात्ताहग कुचद्वयं स्तनद्वन्द्वम् असंमनन्ती का प्रिया प्रियेण वल्लभेन अन्तरिता व्यवहिता सती प्राणत् जिजीव । न कापि ॥ उपजातिः ॥ तुलयन्निवोभयरसं मदिरां दयितोष्ठमप्यभिपिबन्दयितः । अधरस्य नाल्पमपि सीधुनि तन्मधुनोऽधरेऽधिकमलब्ध रसम् ।। ७८॥ तुलेति ॥ दयित उभयरसं तुलयन्नेव मदिरा दयितोष्ठमपि अभिपिबन्' सन् यस्मात्का- रणात् सीधुनि मये अधरस्य अल्पमपि रसं न अलब्ध तत्तस्मात्कारणात् अघरे मधुनो- ऽधिकं रसम् अलब्ध प्राप्तवान् ॥ प्रमिताक्षरा ॥ घनयोः स्तनयोः स्मरेण तन्व्याः परिणाहं परिमातुमुन्नति च । रचितेव रसेन सूत्ररेखा नखलेखा विरराज कुङ्कुमस्य ॥ ७९ ॥ घनयोरिति ॥ नखलेखा स्मरेण कंदर्पण तन्व्याः कामिन्या धनयोनिविडयोः स्तनयोः कुचयोः परिणाहं वर्तुलत्वम् , उन्नतिमुत्सेधं च परिमातुं कुङ्कमस्य रसेन रचिता सूत्ररेखा इव विरराज शुशुभे ॥ औपच्छन्दसिकम् ॥ इत्याशंसुनोभिगन्धं मृगाणामन्यद्रागं वीक्ष्य बालामुखस्य । नामोदो मे हा मृगस्यापि नाभेरित्यङ्कात्मव्यङ्गमाधादिवेन्दुः ॥ ८ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०४&oldid=234716" इत्यस्माद् प्रतिप्राप्तम्