पृष्ठम्:Dvisandhanam kavya.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ काव्यमाला। किमु मधुरसितां मुखात्प्रियां प्रशमयितुं रसमुत्पिबन्निव । अविरतिरुतनिसनच्छलादजनि जनः सकलां गिलन्निव ॥ १५॥ किम्विति ॥ मधुरसितां मधुमत्तां प्रियां प्रशमयितुं मुखात् रस मयस्वभावम् उत्पि- बभिव, अविरतिरुतनिसनच्छलात् अविरतिनोविराममप्राप्तयो रुतनिसनयो रतिकूजितचु- म्बनयोश्छलात् सकलां साङ्गोपाङ्गां गिलग्निव जनोऽजानि किमु ॥ अपरवकम् ।। स्तनजघनभरेण भूरिणा दयिततनौ दयिता ममौ गुरुः । पृथुनि निजचले बहुच्छले मनसि हि माति कियत्यसौ तनुः ॥६६॥ स्तनेति ॥ भरिणा स्तनजघनभरेण कुचनितम्बमारण गुरुर्दयिता प्रिया दयिततनी ममौ अवकाशं लब्धवती । हि यतः कियती असौ तनुः पृथुनि विस्तीर्णे, निजचले स्व- तश्वश्चले, बहुच्छले प्रचुरप्रपञ्चे मनसि माति ॥ क्षेपयन्निव मुखामुखि मानं मानसीं कलुषतां कुसुमेषोः । संबिभाषिषुरिवासवमत्तश्चुम्बनेषु रमणः क्वणति म ॥ ६७ ॥ क्षेपयेति ॥ आसवमत्तो रमणः प्रियश्चुम्बनेषु, मुखामुखि मुखेन मुखेनाश्रित्येदं प्रवृत्तं यया तथा मान चुम्बितुमहं कुशल इत्यभिमानं क्षेपयनिव, कुसुमेषोर्मानसीं कलुषता सं- विभाषिषुः संभाषितुमिच्छुरिव कति स्म ॥ स्वागता ॥ कोपाश्रुभिः कालवणैः परीतः स्याद्वा स लावण्यमयः प्रियोष्ठः । कुतोऽन्यथा तं पिबतामुदन्या माधुर्यवत्प्रत्युत हन्ति तृष्णाम् ॥६८॥ कोपेति ॥ कालवणैरीषरक्षारैः कोपाश्रुभिः स्नेहकोपप्रवृत्ताश्रुभिः, परीतो व्याप्तः यः पर्व मधुरं मधुरमिति कृत्वास्वादितः, सप्रियोष्ठो लावण्यमयोऽमृतमय व स्यात् । अन्यथा तं प्रियौष्ठं पिषता प्रियाणाम् उदन्या पिपासा माधुर्यवत् माधुर्येण तुल्यं तृष्णाम् प्रत्युत कुतः हन्ति ॥ उपजातिः ॥ प्रथममधरे कृत्वाश्लेषं व्रणं विदधे वधू. रतिविनिमयः प्रीतेनायं कुतोऽप्यनुशय्यते । खयमिति भयात्सत्यंकारं प्रदातुमिवोद्यता ननु च सबलाः कृत्ये नाम्ना भवन्त्यबलाः स्त्रियः ॥ ६९॥ प्रथमेति ॥ वधूः 'प्रीतेन वालभेन स्वयमात्मना अयम् अतिविनिमयः पुरुषसंभोगैक- गुणस्य स्त्रियाः पुरुषायितसंभोगो द्विगुणस्त्रिगुणो वा श्रीपुरुषाश्रितसंभोगैकगुणस्य पुरुषस- द्भाषणाद्गुणोपाधेयस्य विनिमयः कुतोऽपि कस्मादपि अनुशय्यते पश्चात्तापविषयीक्रियते' इति भयात् सत्यकारं प्रदातुम् उद्यता इव प्रथमम् आश्लेषमालिङ्गनं कृत्वा अघरे दन्त- च्छेदे व्रण दन्तक्षतं विदधे विहितवती । 'निदधे इति पाठे निखातवती। युक्तमेतत् । ननु अहो स्त्रियो नाम्रा अबलाः, कृत्ये सवलाः भवन्ति ॥ हरिणी। ___ Digitized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०२&oldid=234711" इत्यस्माद् प्रतिप्राप्तम्