पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ मत्तविलासप्रहसनम् । कपाली --- एवंविधं सुवर्णभाजनं केन कृतम् । उन्मत्तकः -- (क) एदिणा शुवण्णवण्णपडावुदेण शुव. ण्णकारावुत्तएण किदं त्ति भवअं! शुवण्णभाअणं न्ति भणामि । शाक्यभिक्षुः – (ख) किं भणासि । उन्मत्तकः - (ग) शुवण्णभाअणं त्ति । शाक्यभिक्षुः-- (घ) किमअं उम्मत्तओ। उन्मत्तकः --- (ङ) उम्मत्तओ त्ति बहुशो एवं शदं शु- णोमि । एदं गहिअ दळिशेहि उम्मत्तअं । (कपालिने कपालं प्रयच्छति । ) कपाली- (कपाल गृहीत्वा ) अयमिदानी कुड्येनान्त. हितः । शीघ्रमनुगम्यताम् । उन्मत्तकः--- (च) ळद्धप्पशादे मि । (निष्क्रान्तो जवेनोन्मत्तकः ।) . शाक्यभिक्षुः- (छ) अहो. अच्छरिअं। परवक्खस्स लाभेण अहं परितुट्ठो ह्मि । (क) एतेन सुवर्णवर्णपटावृतेन वर्णकारावुत्तेन कृतमिति भगवन् ! सुव. भाजनमिति भणामि । (ख) किं भणसि। (ग) सुवर्णभाजनमिति । (घ) किम यमुन्मत्तकः । () उन्मत्तक इति बहुश एतं शब्दं शृणोमि । एतद् गृहीत्वा दर्शयो- न्मत्तकम् । (च) लब्धप्रसादोऽस्मि । (छ) अहो आश्चर्यम् । परपक्षस्य लाभेनाहं परितुष्टोऽस्मि । . . .- -- - -