पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. मत्तविलासप्रहसनम यदेतदासीत् प्रथमं स्वभावतो मृणालभङ्गच्छविचोरमम्बरम् । ननु त्वया नीतमचिन्त्यकर्मणा तदेव बालारुणरागताम्रताम् ॥१५॥ अपिच, आवृतं बहिरन्तश्च कषायेणानपायिना । त्वां प्राप्तं स्यात् कथं नाम कपालमषायितम्॥१६॥ देवसोमा- (क) हा हदह्मि मन्दभाआ । सबळक्ख- णसम्पण्णदाए कमळासणसीसकवाळाणुभावस्स पुण्णमासिसो- मदंसणस्स णिच्चसुरागन्धिणो एदस्स मळिणपडसंसग्गेण इअ ईदिसी अवस्था संवुत्ता । (इति रोदिति ।) कपाली--प्रिये! अलमलं सन्तापेन । पुनः शुचिर्भ- विष्यति । श्रूयन्ते हि महान्ति भूतानि प्रायश्चित्तैरपनीतकल्म- षाणि भवन्ति । तथाहि - आस्थाय प्रयतो महाव्रतमिदं बालेन्दुचूडामणिः स्वामी नो मुमुचे पितामहशिरश्छेदोद्भवादेनसः। नाथोऽपि त्रिदिवौकसां त्रिशिरसं त्वष्टुस्तनूजं पुरा हत्वा यज्ञशतेन शान्तदुरितो भेजे पुनः पुण्यताम् ॥ १७ ॥ भो बभ्रकल्प ! नन्वेवमेतत् । (क) हा हतास्मि मन्दभागा। सर्वलक्षणसम्पन्नतया कमलासनशीर्षकपा- लानुभावस्य पौर्णमासीसोमदर्शनम्य नित्यसुरागन्धिन एतस्य मलिनपटसंसर्गे- णेयमीदृश्यवस्था संवृत्ता।