पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । (ततः प्रविशति पाशुपतः ।) पाशुपतः--- सत्यसोम! किमर्थमाक्रन्दसि। कपाली --- भो बभ्रकल्प ! अयं दुष्टभिक्षुनामधारको नागसेनो मम भिक्षाकपालं चोरयित्वा दातुं नेच्छति । पाशुपतः --- (आत्मगतम्) यदस्माभिरनुष्ठेयं , गन्धर्वैः तद- नुष्ठितम् । एष दुरात्मा, तां क्षौरिकस्य दासीं मम दयितां चीवरान्तदर्शितया। आकर्षति काकण्या बहुशो गां ग्रासमुष्टयेव ॥ १४॥ तदिदानी प्रतिहस्तिप्रोत्साहनेन शत्रुपक्षं ध्वंसयामि। (प्रकाशम् ) भो नागसेन ! अप्येवमेतद् , यथायमाह । शाक्यभिक्षुः - (क) भअव ! तुवं पि एवं भणासि । अ. दिण्णादाणा बेरमणं सिक्खापदं । मुधावादा वेरमणं सिक्खा- पदं । अब्बम्हचय्या वेरमणं सिक्खापदं । पाणादिपादा वेरमः णं सिक्खापदं । अकाळभोअणा वेरमणं सिक्खापदं । अह्मा- अं बुद्धधम्म सरणं गच्छामि । पाशुपतः--- सत्यसोम ! ईदृश एषां समयः । किमत्र प्रतिवचनम् । (क) भगवन् ! त्वमप्येवं भणसि । अदत्तादानाद्विरमणं शिक्षापदम् । मृषावादाद्विरमणं शिक्षापदम् । अब्रह्मचर्याद्विरमण शिक्षापदम् । प्राणातिपा- ताद्विरमणं शिक्षापदम् । अकालभोजनाद्विरमणं शिक्षापदम् । अस्माकं बुद्ध- धर्मं शरणं गच्छामि । १. 'म्हजच', २. 'दं। भोअणकाळत्थेरावे' क. पाठः.