पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . मत्तविलासप्रहसनम् । कपाली -- भवति ! भिक्षां देहि । (नेपथ्ये) (क) भअब! एसा भिक्खा । पडिगण्हदु भअयं । कपाली- एष प्रतिगृह्णामि । प्रिये ! क मे कपालम्। देवसोमा- (ख) अहं वि ण पेक्खामि । कपाली- (ध्यात्वा) आ, तस्मिन्नेव सुरापणे विस्मृत- मिति तर्कयामि । भवतु, प्रतिनिवृत्य द्रक्ष्यावः।। देवसोमा- (ग) भअवं ! अध-मो खु एसो आदरो वणीदाए भिक्खाए अप्पडिग्गहो । किं दाणि करम्ह । कपाली- आपद्धर्म प्रमाणीकृत्य गोशृङ्गेण प्रतिगृह्य- ताम् । देवसोमा- (घ) भअब ! तह । (प्रतिगृह्णाति ।) (उभौ परिक्रम्यावलोकयतः ।) ___ कपाली --- कथमिहापि न दृश्यते । (विषादं रूपयित्वा) भो भो माहेश्वराः! माहेश्वराः! अस्मदीयं भिक्षाभाज- नमिह भवद्भिः किं दृष्टम् । किमाहुर्भवन्तः --नखलु वयं (क) भगवन् ! एषा भिक्षा । प्रतिगृह्णातु भगवान् । (ख) अहमपि न पश्यामि । (ग) भगवन् ! अधर्मः खल्वेष आदरोपनीताया भिक्षाया अप्रतिग्रहः । किमिदानी कुर्वः । (घ) भगवन् ! तथा ।