पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । लब्ध्वा प्रिये ! दुर्लभमाननं ते भूयोऽपि किं प्रार्थयितव्यमस्ति ॥ २ ॥ नटी- (क) किं दाणि अय्येण पउज्जिदव्यं । सूत्रधारः -- ननु त्वयैवाभिहितं मत्तविलासग्रहसन- मिति । नटी- (ख) शृणं इमरिस पक्खबादी मे कोबो , जेण अभिप्पाआणुरूवं भणाविद मि । अय्य! कदमो उण सो कवी, जो इमाए किदीए पआसीअदि । सूत्रधारः -- भवति!श्रूयताम् । पल्लवकुलधरणिमण्डल. कुलपर्वतस्य सर्वनयविजितसमस्तसामन्तमण्डलस्य आख- ण्डलसमपराक्रमश्रियः श्रीमहिमानुरूपदानविभूतिपरिभूतरा. जराजस्य श्रीसिंहविष्णुवर्मणः पुत्रः शत्रुषड्वर्गनिग्रहपर; परहितपरतन्त्रतया महाभूतसधर्मा महाराजः श्रीमहेन्द्रवि- क्रमवर्मा नाम । अपिच, प्रज्ञादानदयानुभावधृतयः कान्तिः कलाकौशल सत्यं शौर्यममायता विनय इत्येवम्प्रकारा गुणाः । अप्राप्तस्थितयः समेत्य शरणं याता यमेकं कलौ कल्पान्ते जगदादिमादिपुरुषं सर्गप्रभेदा इव ॥३॥ (क) किमिदानीमार्येण प्रयोक्तव्यम् । (ख) नूनमस्मिन् पक्षपाती मे कोपः, येनाभिप्रायानुरूप भाणितास्मि ! आर्य ! कतमः पुनः स कविः, योऽनया कृत्या प्रकाश्यते । 1. 'गद भ' ख. पाठः,