पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शत्रुमल्ल इत्येतत् शत्रुधर्पणशक्त्यतिशयात् सिद्धम् । तच्चास्मत्प्रहसने 'राजन्वा- नस्तु शक्तिप्रशमितरिपुणा शत्रुमल्लेन लोकः' इति भरतवाक्यश्लोकपादे गृही- तमेव । अवनिभाजन -गुणभर - मत्तविलासबिरुदानि तु ‘स व्या. तावनिभाजनं दिशतु वो दिन्यः कपाली यशः' इति मङ्गलश्लोके, 'जोव्व- णगुणभरमत्तविलासप्पहसणं' इति नटीवाक्ये चोपात्तानि । तत्रापि गुण- भरबिरुदम् उच्चावचसद्गुणातिशययोगान्नूनं निष्पन्नम् । स च सद्गुणातिश- ययोगः 'प्रज्ञादानदयानुभावधृतयः' (श्लो० ३) इत्यादिना प्रकाशित एव । प्रहसनवस्तुभूतकपालरूपभाजनदानसूचनानुगुण्येन अवनिभाजनशब्दस्य य- चमत्कारकारि संघटनं, तन्निबन्धनः संघटयितरि कवौ अवनिभाजनपदव्य- पदेशो विदग्धैर्मन्ये प्रवर्तितः । एवं मत्तविलासपदव्यपदेशोऽपि तत्पदसंघट- ननिबन्धनः, अर्थान्तरपरेण तेन पदेन प्रहसननामधेयस्य मुद्रालङ्कारभङ्गया संसूचनात् । महेन्द्रविक्रमवर्मणो जीवितसमयम्तु ऊस्ताब्दीयस्य षष्ठशतकस्य पूर्वो भागः, यस्मात् स मद्रमण्डलपुराणवस्तुविमर्शकैः ६०९तम ऊस्ताब्दा- वाप्तराज्याधिपत्यस्य चालूक्यस्य द्वितीयपुलकेशिनः समकालिको निर्णीतः । अस्य प्रहसनस्य संशोधनाधारभूतौ केरलग्रन्थलिपी तालपत्रात्मकौ त्रिचतुरशतवर्षवृद्धौ द्वावाद । तत्रैक: १९०९तमे ऊस्ताब्दे मणलिक्कर- मठान्मयोपलब्धः, द्वितीयः १९१४ तमे (माङ्गानम् ) नीलकण्ठचाक्यार्- महाशयसकाशादासादितः ॥ अनन्तशयनम् , त. गणपतिशास्त्री. १४-५-१९१७. ।