अथर्ववेदः/काण्डं ६/सूक्तम् ०८१

विकिस्रोतः तः
← सूक्तं ६.०८० अथर्ववेदः - काण्डं ६
सूक्तं ६.०८१
ऋषिः - अथर्वा।
सूक्तं ६.०८२ →
दे. आदित्यः, ३ त्वष्टा। अनुष्टुप्।

यन्तासि यच्छसे हस्तावप रक्षांसि सेधसि ।
प्रजां धनं च गृह्णानः परिहस्तो अभूदयम् ॥१॥
परिहस्त वि धारय योनिं गर्भाय धातवे ।
मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे ॥२॥
यं परिहस्तमबिभरदितिः पुत्रकाम्या ।
त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनाद्॥३॥