पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

110 अध्यक्षप्रचार २ आवि. २१ अध्या 1385 शुल्कादायिनश्चत्वार पञ्च वा सार्थोपयातान् वणिजो लिखेयु ---- 'के कुतस्त्याः कियत्पण्याः क चाभिज्ञानमुद्रा वा कृता" इति। अमुद्राणामत्ययो देयद्विगुणः । कुटमुद्राणां शुल्काष्टगुणो दण्ड । भिन्नमुद्राणामत्ययो घटिकास्थाने स्थानम् । राजमुद्रापरिवर्तने नामकृते वा सपादपणिकं वहनं दापयेत् । ध्वजमूलोपस्थितस्य प्रमाणमधं च वैदेहकाः पण्यस्य ब्रूयु:- 1383 "एतत्प्रमाणेनार्धेण पण्यमिदं का क्रेतेति" त्रिरुद्धोषित- मर्थिभ्यो दद्यात् । क्रेतुसङ्घर्षे मूल्यवृद्धिस्सशुल्का कोशं गच्छेत् शुल्कभयात्पण्यप्रमाणं मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् । शुल्कमष्टगुणं वा दद्यात् । तदेव निविष्टपण्यस्य भाण्डस्य हीनप्रतिवर्णकेनार्धापकर्षण मारभाण्डस्य फल्गुभाण्डेन प्रतिच्छादने च कुर्यात् । प्रतिक्रेतृभयाद्वा पण्यमूल्यादुपरी मूल्यं वर्धयतो मूल्यवृद्धिं राजा हरेत्, द्विगुणं वा शुल्कं कुर्यात् । तदेवाष्टगुणमध्यक्षस्य छादयतः । तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः। तर्कः फल्गुभाण्डानामानुग्राहिकाणां च । 1371_ध्वजमूलमतिकान्तानां चाकृतशुल्कानां शुल्कादष्टगुणो दण्डः।