पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ प्रक.] देशकालमानम् 107 1831 गार्हपत्यमष्टशताङ्गुलं धनुः पथिप्राकारमानं पौरुषं च अग्नि चित्यानाम् । षट्कंसो दण्डो ब्रह्मदेयातिथ्यमानम् । दशदण्डो रज्जुः । द्विरज्जुकः परिदेशः। त्रिरज्जुकं निवर्तनम् । एकतो द्विदण्डाधिको बाहुः । धनुस्सहस्रं गोरुतम् । चतुर्गोंरुतं योजनम् । इति देशमानं व्याख्यातम् । कालमानमत ऊर्ध्वम् । त्रुटो लवो निमेषः काष्ठा कला नाळिका मुहूर्तः पूर्वा- परभागौ दिवसो रात्रि' पक्षो मास ऋतुरयनं संवत्सरो युगमिति काला । द्वौ त्रुटौ लवः। द्वौ लवौ निमेषः । पञ्च निमेषाः काष्ठा । त्रिंशत्काष्ठाः कला। चत्वारिंशत्कला' नाडिका । सुवर्णमाषकाश्चत्वारश्चतुरङ्गुलायामाः कुम्मच्छिद्र माढकमं- भसो वा नाळिका। दिनाळिका' मुहूर्तः । 1 द्विधन. 2 तुटो, श्रुटिरिति व्याख्यानुसारी पाठ. नाडिका. 4 तुटी. द्रकामा. नाडिका. द्विनाडिको.