पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७ प्रक तुलासानपौतवम् 103 ६७ प्रक. तुलामानौतवम्, 1274 पौतवाध्यक्षः पौतवकर्मान्तान् कारयेत् । 1274 धान्यमापा दश सुवर्णमापक: पञ्च वा गुञ्जा। ते पोडश सुवर्णः कर्षों वा चतुःकर्ष पलम् । अष्टाशीतिगौरसर्पपा रूप्यमाषक । ते षोडश धरणम् । शैब्यानि वा विंशतिः । विंशतितण्डुलम् वज्रधरणम् । अर्धमाषकः, माषक , द्रौ, चत्वार , अष्टौ' माषका', सुवर्णों द्वौ, चत्वारः, अष्टौ सुवर्णा, दश, विंशति त्रिंशत्, चत्वारिं- शत्, शतमिति । तेन धरणानि व्याख्यातानि। प्रतिमानान्ययोभयानि मागधमेकलशैलमयानि, यानि वा नोदकप्रदोहाभ्यां वृद्धिं गच्छेयरुष्णेन वा ह्रासम् । षडङ्गुलादूर्ध्वमष्टाङ्गुलोत्तराः दश तुला कारयेल्लोहपलादूर्ध्वमे- कपलोत्तरायन्त्रमुभयतः शिक्यं वा । पञ्चत्रिंशत्पललोहां द्विसप्तत्यङ्गुलायामां समवृत्तां कारयेत्। 128 3 तस्याः पञ्चपलिक मण्डलं बध्मा समकरणं कारयेत् । ततः कर्षोत्तरं पलं पलोत्तरं दशपलं द्वादश, पञ्चदश विंशतिरिति कारयेत् । तत आशतादृशोतरं कारयेत् । अक्षेषु नान्दीपि नद्धं कारयेत् । - 1 अष्टौ सुवर्णा दश, 2 प्रदेहा. मिति पदानि. कारयेत् । नद्धीपिनद्धं.