पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

102 अध्यक्षप्रचार [२ अधि. १८ अध्या 1253 तालचापदारवशार्ङ्गाणि कार्मुककोदण्डब्रूणा धनूंषि । पूर्वार्कशणगवेक्षु वेणुस्नायूनि ज्याः । वेणुशरशलाकादण्डामननाराचाश्च इषवः । तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि । निस्त्रिंशमण्डलाग्नालियष्टयः खङ्गाः। खङ्गमहिषवारणविषाणहारवेणुमूलानि त्सरकः । परशुकुठारपट्टसखनित्रकृद्दालचक्र काण्डच्छेदनाः क्षुरकल्पाः। यन्त्रगोप्पणमुष्टिपाषाणरोचनीदृषदश्च आयुधानि । लोहचालिकापट्टकवचमूत्रकं कर्कटशिंशुमारकखडङ्गिधेनुक हस्तिगोचर्मखुरशृङ्गसङ्घात वर्माणि शिरस्त्राणकण्ठत्राणकूर्पास कञ्चुकवारवाणपट्टनागोदरिकावेरि' चर्महस्तिक' तालमूलधमनि- काकवाटकिटिकाप्रतिहलबलाहकान्ताश्च आवराणि । 1268 हस्तिरथवाजिनां योग्यभाण्डमालङ्कारिकं सन्नाहकल्पना- श्वोपकरणानि। ऐन्द्रजालिकमोपनिषदिकं च कर्म कर्मान्तानां च । इच्छामारम्भनिष्पत्तिं प्रयोगं ब्याजमुद्देयम् । क्षयव्ययौ च जानीयात् कुप्यानामायुधेश्वरः ।। इत्यध्यक्षप्रचारे आयुधागाराध्यक्षः अष्टादशोऽध्याय आदित एकोनचत्वारिंश' 1 बेथुनकच' इति व्याख्याने पाठशारायचा 4 लोहजा. पेठि. हस्तिकर्ण. 'व्याजिमुद्यमम् .