पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाध्यक्ष 99 Aawe --. .. wwww - --- - - -..-- परविषये तु-पण्यप्रतिपण्ययोर्धमूल्यं च आगमय्य शुल्क 119 8 वर्तन्यातिवाहकगुल्मतरदेयप्रक्तभानव्ययशुद्धमुदयं पश्येत् । अस- त्युदये भाण्ड 'निर्वहणेन पण्यप्रतिपण्यार्धेण 'वा लामं पश्येत् । ततस्सारपादेन स्थलव्यबहारमध्वना क्षेमेण प्रयोजयेत् । अट- व्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्ग गच्छेदनुग्रहार्थम् । आपदि सारमात्मानं वा मोक्षयेत् । आत्मनो वा भूमि- मप्राप्तः सर्वदेयविशुद्धं व्यवहरेत् । वारिपथे च यानभागकपथ्यदनपण्यप्रतिपण्यार्धप्रमाणयात्रा- कालभयप्रतीकारपण्यपत्तनधारित्राण्युपलभेत ।। नदीपथे च विज्ञाय व्यवहार चरित्रतः । यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ।। इत्यध्यक्षप्रचारे पण्याध्यक्षप्षोडशोऽध्याय . आदितस्सप्तत्रिंशः. ३५. प्रक, कुप्याध्यक्षः कुप्थाध्यक्षो द्रव्यवनपालैः कुप्यमानाययेत् । द्रव्यवनकर्मा- 121 1 न्तांश्च प्रयोजयेत् । द्रव्यवनच्छिदा च दयपत्ययं च स्थापये- दन्यत्रापद्भयः ।। कुष्यवर्गः-~~-शाकतिनि शधन्वनार्जुनमधूकतिलकसालशिंशु- राहक भाण्डा प्रतिपण्यानयनेन गतिमि 5 रेत. 6बा. शपा.